Enter your Email Address to subscribe to our newsletters

रायपुरम् 31 मार्चमासः (हि.स.)।
मुख्यमन्त्री विष्णु देव सायोऽद्य मङ्गलवासरे राजधानी रायपुर नगरे विविधेषु कार्यक्रमेषु सहभागित्वं करिष्यति। निर्धारित कार्यक्रमानुसारं सः अद्य प्रातः ११:१५ वादने दीनदयाल उपाध्याय चौक स्थले १०८ संजीवनी एक्सप्रेस योजनायाः अन्तर्गतं ३७५ नवीन रोगिणी वाहनानां शुभारम्भं करिष्यति।
एषा योजना विशेषतया ग्राम्य दूरस्थ क्षेत्रेषु आपत्कालीन स्वास्थ्य सेवाणां शीघ्रं प्रभावीकरणार्थं प्रवर्तिता अस्ति। नया रायपुर नगरे आयोजिते कार्यक्रमे ३७५ आधुनिक रोगिणी वाहनानि १०८ सेवा मध्ये समावेश्यन्ते। तेषु ३०० मूल जीवन समर्थन वाहनानि ७० उन्नत जीवन समर्थन वाहनानि ५ नवजात शिशु वाहनानि च सन्ति। एतानि सर्वाणि वाहनानि अत्याधुनिक तन्त्रज्ञानैः सुसज्जितानि सन्ति येन रोगिभ्यः शीघ्रं उत्तम चिकित्सा प्रदातुं शक्यते। अस्मिन् अवसरे मन्त्रिणः सांसदाः विधायकाः तथा सीजीएमएससी अध्यक्षः अपि उपस्थिताः भविष्यन्ति।
ततः अनन्तरं मुख्यमन्त्री साय सायं ५:४० वादने धरसींवा स्थले नूतन तहसील कार्यालयस्य उद्घाटनं करिष्यति येन स्थानीय प्रशासनिक सुविधानां संवर्धनं भविष्यति। सायं ६ वादने सः कुंवरगढ़ स्थले आयोजिते महोत्सवे भागं ग्रहीष्यति तथा स्थानीय कार्यक्रमेषु सहभागित्वं करिष्यति।रात्रौ ९ वादने पुनः रायपुरं प्रत्यागत्य महावीर जन्मकल्याणक महोत्सवे सहभागित्वं करिष्यति।
हिन्दुस्थान समाचार