मुख्यमन्त्री सायः ३७० नूतन-एम्बुलेंस-यानानि हरित-ध्वजेन प्रस्थितान् अकरोत्
रायपुरम्, ३१ मार्चमासः (हि.स.)। छत्तीसगढ-राज्ये आपत्कालीन-स्वास्थ्य-सेवानां सुदृढीकरणाय मुख्यमन्त्री विष्णुदेव-सायः ३०० बीएलएस तथा ७० एएलएस-सहितम् आहत्य ३७० नूतन-एम्बुलेंस-यानानि हरित-ध्वजेन प्रस्थितान् अकरोत्। एतैः सह १०८-सेवा प्रदेशे तत्काल-प्रभा
मुख्यमंत्री साय  एम्बुलेंस वाहन को  हरी झंडी दिखाते हुए


रायपुरम्, ३१ मार्चमासः (हि.स.)। छत्तीसगढ-राज्ये आपत्कालीन-स्वास्थ्य-सेवानां सुदृढीकरणाय मुख्यमन्त्री विष्णुदेव-सायः ३०० बीएलएस तथा ७० एएलएस-सहितम् आहत्य ३७० नूतन-एम्बुलेंस-यानानि हरित-ध्वजेन प्रस्थितान् अकरोत्। एतैः सह १०८-सेवा प्रदेशे तत्काल-प्रभावेन आरब्धा।

प्रथमवारं ५ नियोनेटल-एएलएस-एम्बुलेंस-सेवा अपि आरब्धा, या नवजात-शिशूनां आपत्कालीन-परिचर्यायां सहायकाः भविष्यन्ति। मुख्यमन्त्री उक्तवान् यत् नगर-क्षेत्रेषु १५ निमेषेषु ग्रामीण-क्षेत्रेषु ३० निमेषेषु च एम्बुलेंस-सेवां प्रदातुं सर्वकारस्य लक्ष्यम् अस्ति।

स्वास्थ्य-मन्त्री श्याम-बिहारी-जायसवालः उक्तवान् यत् एतेन राज्ये त्वरिता चिकित्सा-सहायता उपलब्धा भविष्यति तथा छत्तीसगढः नियोनेटल-एम्बुलेंस-सेवाम् आरब्धवान् द्वितीयं राज्यं जातम्।

हिन्दुस्थान समाचार / अंशु गुप्ता