रायपुरम् : मुख्यमंत्री सायो महावीर जयंत्याः प्रदेशवासिभ्योऽददाच्छुभकामनाः
रायपुरम् 31 मार्चमासः (हि.स.)। मुख्यमन्त्री विष्णु देव सायः जैनधर्मस्य चतुर्विंशतितम-तीर्थंकरस्य भगवान महावीर स्वामी जयन्त्याः अवसरस्य निमित्तं अद्य प्रदेशवासिभ्यः हार्दिकाः शुभाशयाः प्रेषितवान्। मुख्यमन्त्री साय उक्तवान् यत् भगवतः महावीरस्वामि
मुख्यमंत्री  विष्णु देव साय फाइल फाेटाे


रायपुरम् 31 मार्चमासः (हि.स.)।

मुख्यमन्त्री विष्णु देव सायः जैनधर्मस्य चतुर्विंशतितम-तीर्थंकरस्य भगवान महावीर स्वामी जयन्त्याः अवसरस्य निमित्तं अद्य प्रदेशवासिभ्यः हार्दिकाः शुभाशयाः प्रेषितवान्।

मुख्यमन्त्री साय उक्तवान् यत् भगवतः महावीरस्वामिनः सत्य-अहिंसा-करुणा-अपरिग्रह इति सिद्धान्ताः अद्यापि मानवजीवनस्य मार्गदर्शकाः सन्ति। तेन उक्तं यत् एतानि मूल्याणि आत्मीकृत्य समाजे शान्तिः सद्भावः संतुलनं च स्थापयितुं शक्यते।

सः पुनः उक्तवान् यत् भगवतः महावीरस्य जीवनं अस्मान् आत्मसंयम-त्याग-सहअस्तित्वभावेन सह जीवनं यापनाय प्रेरयति। तस्य सन्देशः केवलं कस्यचित् एकस्य वर्गस्य कृते न, अपि तु समग्रमानवजातये प्रासंगिकः अस्ति।

तेन प्रदेशवासिभ्यः आह्वानं कृतम् यत् ते भगवतः महावीरस्य शिक्षाः स्वदैनिकजीवने आत्मसात् कुर्वन्तु तथा च समाजस्य दुर्बल-आवश्यकतावान् वर्गानां सहाय्यार्थं सदा अग्रे आगच्छेयुः।

हिन्दुस्थान समाचार