Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 31 मार्चमासः (हि.स.)।
असम-राज्यस्य मुख्यमन्त्री हिमंत बिस्व सरमा मङ्गलवासरे उक्तवान् यत् डिमोरिया, रहा, बरखेत्री तथा कमलपुर-क्षेत्राणि तस्य कृते केवलं विधानसभा-क्षेत्राणि न सन्ति, अपि तु तस्य कार्यस्य सेवायाः च प्रेरणास्रोतांसि सन्ति।
मुख्यमन्त्री अवदत् यत् गत-कार्यकाले तस्य सर्वकारेण अहर्निशं परिश्रम्य एतेषु क्षेत्रेषु विकासस्य दृढा आधारशिला स्थापिताऽस्ति। अधुना समयः आगतः यत् अस्याः आधारशिलायाः अधिकं सुदृढीकरणं क्रियेत।
तेन उक्तं यत् परिवर्तनस्य नूतन-यात्रायाः उत्साहेन सह सः शीघ्रमेव एतेषु क्षेत्रेषु जनानां मध्ये आगमिष्यति तथा विकासस्य गतिं अधिकं तीव्रां कर्तुं प्रतिबद्धः अस्ति।
उल्लेखनीयम् अस्ति यत् मुख्यमन्त्री अद्य निर्वाचन-प्रचारार्थं एतेषु क्षेत्रेषु आगमिष्यति।
हिन्दुस्थान समाचार