Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 31 मार्चमासः (हि.स.)।
असम-राज्यस्य मुख्यमन्त्री हिमंत बिस्व सरमा मङ्गलवासरे महावीर-जयन्त्याः पावन-अवसरे प्रदेशवासिभ्यः हार्दिकाः शुभाशयाः प्रदत्तवान् तथा भगवान महावीर स्वामी-ं प्रति श्रद्धांजलिं समर्पितवान्।
मुख्यमन्त्री स्वस्य सामाजिक-माध्यम-सन्देशे उक्तवान् यत् भगवता महावीरेण दर्शितेन करुणा-अहिंसा-आत्मसंयमस्य मार्गेण चलित्वा विकसितं शान्तिपूर्णं मानवीयं च समाजं निर्मातुं शक्यते। तेन सर्वेभ्यः नागरिकेभ्यः एतानि मूल्याणि स्वीकर्तुं आह्वानं कृतम्।
तेन उक्तं यत् अहिंसा-सत्य-अस्तेय-ब्रह्मचर्य-अपरिग्रह इति भगवतः महावीरस्य जीवनस्य सन्देशस्य च आधाराः आसन्, ये अद्यापि मानवतां सम्यक् मार्गं दर्शयन्ति।
मुख्यमन्त्री अवदत् यत् त्याग-संयम-प्रेम-करुणा इति तस्य मार्गः अद्यापि प्रासंगिकः अस्ति तथा समाजस्य कृते प्रेरणास्रोतः भवति। अस्मिन् अवसरे तेन सर्वेभ्यः देशवासिभ्यः महावीर-जयन्त्याः हार्दिकाः शुभाशयाः अपि प्रदत्ताः।
हिन्दुस्थान समाचार