कटिहार रेल मंडलस्य मंडल वाणिज्य प्रबंधिकायाः संगीता मीणायाः हाजीपुरस्थानांतरणम्
कटिहारः, 31 मार्चमासः (हि.स.)। कटिहार-रेलमण्डले नियुक्ता मण्डल-वाणिज्य-प्रबन्धिका संगीता मीणा महोदया: हाजीपुर-जोनं प्रति स्थानान्तरणस्य अवसरः एकः भव्यः विदाय-समारोहः आयोज्य अभवत्। अस्मिन् अवसरे उपस्थितैः अधिकारिभिः कर्मचारिभिश्च तस्याः कुशल-नेतृत
विदाई समारोह


कटिहारः, 31 मार्चमासः (हि.स.)।

कटिहार-रेलमण्डले नियुक्ता मण्डल-वाणिज्य-प्रबन्धिका संगीता मीणा महोदया: हाजीपुर-जोनं प्रति स्थानान्तरणस्य अवसरः एकः भव्यः विदाय-समारोहः आयोज्य अभवत्। अस्मिन् अवसरे उपस्थितैः अधिकारिभिः कर्मचारिभिश्च तस्याः कुशल-नेतृत्वस्य, उत्कृष्ट-कार्यशैल्याः तथा विभागीय-विकासे प्रदत्तस्य उल्लेखनीय-योगदानस्य अत्यन्तं प्रशंसा कृता।

वरिष्ठ-मण्डल-वाणिज्य-प्रबन्धकः अनूप कुमार सिंह, सहायक-वाणिज्य-प्रबन्धकः जितेन्द्र कुमार सिंह तथा निशान्त कुमार सहिताः वाणिज्य-विभागस्य अनेके अधिकारी कर्मचारी च उपस्थिताः आसन्। सर्वे अपि स्वानुभवान् सहकृत्य डीसीएम संगीता मीणा सह व्यतीतानां क्षणानां स्मरणं कृतवन्तः।

संगीता मीणा महोदया स्वस्य भावुक-उद्बोधने कटिहार-रेलमण्डले प्राप्तस्य सहयोगस्य, स्नेहस्य विश्वासस्य च कृते सर्वेषां सहकर्मिणां प्रति कृतज्ञतां व्यक्तवती। सा उक्तवती यत् अत्र प्राप्तः अनुभवः तस्याः कृते सदा प्रेरणादायकः भविष्यति, तथा च सा भविष्ये अपि पूर्ण-समर्पणेन निष्ठया च स्वकर्तव्यं निर्वहिष्यति।

समारोहस्य सफल-संचालनं वाणिज्य-कार्यालय-अधीक्षिका जेनी लकड़ा कुशलतया अकरोत्। अन्ते सर्वे अधिकारी कर्मचारी च तस्यै नव-उत्तरदायित्वानां कृते शुभकामनाः प्रदाय तस्याः उज्ज्वल-भविष्यस्य कामनां कृतवन्तः।

---------------

हिन्दुस्थान समाचार