Enter your Email Address to subscribe to our newsletters

गांधीनगरम्, 31 मार्चमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र मोदी मङ्गलवासरे उक्तवान् यत् अद्य विश्वम् अस्थिरतायाः अशान्तेः च अवस्थां अनुभवति, तथा च अस्मिन् काले जैनधर्मस्य अहिंसासन्देशः सम्पूर्णमानवजातेः कृते अत्यन्तं प्रासङ्गिकः अस्ति।
महावीरजयन्त्याः अवसरॆ प्रधानमन्त्री गांधीनगर-स्थिते कोबातीर्थे सम्राट् संप्रति-संग्रहालयस्य उद्घाटनानन्तरं जनसभां सम्बोधितवान्। सः उक्तवान् यद्अद्य विश्वे ये परिस्थितयः दृश्यन्ते, तेन विश्वम् अस्थिरतायाः अशान्तेः च वह्निना दह्यते। अस्य संग्रहालयस्य धरोहरः, अस्य सन्देशः भारतस्य एव न, अपि तु सम्पूर्णमानवजातेः कृते महत्त्वपूर्णः अस्ति। अस्माकं प्रयासः भवेत् यत् अन्यदेशेभ्यः आगच्छन्तः जिज्ञासवः, विद्यार्थीः, शोधकर्तारः च भारतस्य जैनधर्मस्य शिक्षाः विश्वस्य सर्वेषु कोणेषु प्रसारयन्तु।”
सः भगवान महावीर प्रति नमनं कृत्वा उक्तवान् यत्—अद्यतनवैश्विकस्थितिः चिन्ताजनका अस्ति, यत्र अनेकासु प्रदेशेषु संघर्षः अस्थिरता च वर्धते। अस्मिन् काले जैनदर्शनस्य अहिंसा, सत्य, अस्तेय, अपरिग्रह च सिद्धान्ताः विश्वाय नूतनां दिशां दातुं समर्थाः सन्ति।
प्रधानमन्त्री उक्तवान् यत् सम्राट् संप्रति शासनं सेवामाध्यमत्वेन स्वीकृत्य अहिंसायाः विस्तारं कृतवान्, तस्य जीवनं अद्यापि प्रेरणादायकम् अस्ति। सः उक्तवान् यत्—अयं संग्रहालयः केवलं भारतस्य प्राचीनधरोहरस्य संरक्षणं न करोति, अपि तु आगामिपीढीनां तया सह सम्बद्धतां अपि सुदृढयति।
सः उक्तवान् यत्—भारते ज्ञानपरम्परा सदा समृद्धा आसीत्, किन्तु विदेशीयाक्रमणकारिभिः मजहबीसंकीर्णतया तक्षशिला तथा नालंदा इत्यादीनां विश्वविद्यालयानां अमूल्याः पाण्डुलिपयः नष्टाः। स्वतन्त्रतायाः अनन्तरम् अपि एतेषां धरोहराणां संरक्षणे अपेक्षितं ध्यानं न दत्तम्।
तेन उक्तम् यत्—पूर्वसरकारैः पाण्डुलिपीनां उपेक्षा कृता, किन्तु अधुना तासां अन्वेषणं, संरक्षणं च कर्तुं प्रयासाः क्रियन्ते। अस्यां दिशि ‘ज्ञानभारतं मिशनम्’ इत्यादयः उपक्रमाः प्रवर्तिताः, यत्र आधुनिकतन्त्रज्ञानस्य व्यापकः उपयोगः क्रियते। अस्य उपक्रमस्य माध्यमेन प्राचीनपाण्डुलिपीनां डिजिटलीकरणं क्रियते तथा च वैज्ञानिकरीत्या ताः संरक्ष्यन्ते। उच्चगुणवत्तायुक्तस्कैननम्, रासायनिकोपचारः, व्यापकडिजिटलसंग्रहाणां निर्माणम् च अस्मिन् अन्तर्भवति। एतेषां सर्वेषां प्रयत्नानां उद्देश्यः अस्माकं समृद्धां धरोहरां भाविपीढीनां कृते सुरक्षितां कर्तुम् अस्ति।
उल्लेखनीयम् यत्—सम्राट् संप्रति-संग्रहालयः जैनधर्मस्य समृद्धां सांस्कृतिकां ऐतिहासिकां आध्यात्मिकां च धरोहरां प्रदर्शयति। सप्तसु दीर्घासु विभक्ते अस्मिन् संग्रहालये दुर्लभाः अवशेषाः, जैनकलाकृतयः, प्राचीनपाण्डुलिपयः, पारम्परिकनिक्षेपाः च प्रदर्शिताः सन्ति। आधुनिकतन्त्रज्ञानसमन्वितः अयं संग्रहालयः आगन्तुकानां शोधकर्तॄणां च कृते भारतस्य सभ्यतायाः यात्रायाः गम्भीरं अनुभवम् प्रददाति।
---------------
हिन्दुस्थान समाचार