छत्तीसगढ़-राज्यपालः महावीर-जयंती-अवसरे प्रदेशवासिनः प्रति शुभकामनाः अयच्छत्
रायपुरशगरम्, ३१ मार्चमासः (हि.स.)।छत्तीसगढ़-राज्यपाल: रमेन-डेका जैनधर्मस्य २४ तमे तीर्थंकर-भगवान्-महावीर-जयंती-अवसरे प्रदेशवासिनः प्रति हार्दि्य: शुभकामनाः प्रेषितवान्। राज्यपालस्य संदेशे उक्तम् –भगवान् महावीरः मानवानां कल्याणाय सत्य, अहिंसा, अस्त
राज्यपाल रमेन डेका


रायपुरशगरम्, ३१ मार्चमासः (हि.स.)।छत्तीसगढ़-राज्यपाल: रमेन-डेका जैनधर्मस्य २४ तमे तीर्थंकर-भगवान्-महावीर-जयंती-अवसरे प्रदेशवासिनः प्रति हार्दि्य: शुभकामनाः प्रेषितवान्।

राज्यपालस्य संदेशे उक्तम् –भगवान् महावीरः मानवानां कल्याणाय सत्य, अहिंसा, अस्तेय, अपरिग्रह, ब्रह्मचर्य च इत्यादीनि उच्च-जीवनमूल्यानि प्रददाति। स: समाजं अन्धविश्वासात्, आडम्बरात्, कुरीतिभ्यः च रक्ष्य समाजे नैतिकता, करुणा, संयम च मार्गदर्शितवान्। महावीर-स्वामीनाम् विचाराः अद्यापि समाजं शान्ति, सद्भाव, सह-अस्तित्व इत्येतयोः मार्गे प्रवर्तयन्ति।

राज्यपालः अत्र उक्तवान् यत् भगवत: महावीरस्य अहिंसा-सिद्धान्तः विश्वे शान्तिं सौहार्दं च स्थापयितुं शक्तिशाली-माध्यमम् अस्ति। तस्य जीवनं आत्मसंयम-अनुशासन-सरल-जीवनं च शिक्षयति।

श्री-रमेन-डेका प्रदेशवासिनः प्रति आव्हानं कृतवान् यत् स: महावीरस्य आदर्शान् स्वजीवने अनुसृत्य सद्भाव-सहिष्णुता-मानवीय-मूल्येषु दृढतां च स्थापयन्तु।

हिन्दुस्थान समाचार / अंशु गुप्ता