Enter your Email Address to subscribe to our newsletters

भारतस्य औद्योगिक-वृद्धि-दरः फरवरी २०२६ मासे ५.२ प्रतिशतं अभवत्, यस्मिन् निर्माण-क्षेत्रस्य प्रमुखं योगदानम् आसीत्। निर्माण-क्षेत्रे ६ प्रतिशत-वृद्धिः अभवत्, तथा बहुषु उद्योग-समूहेषु सकारात्मक-प्रगतिः अभिलेखिता। मूल-धातु-मोटरयान-यन्त्रोपकरण-क्षेत्रेषु द्वि-अङ्कीय-वृद्धिः दृष्टा, यदा खनन-विद्युत्-क्षेत्रयोः अपि वृद्धिः अभवत्।
पूंजीगत-वस्तूनाम् उत्पादनं १२.५ प्रतिशतं वर्धितम्, यत् निवेश-वृद्धेः संकेतः अस्ति। उपभोक्ता-वस्तूनां उत्पादनं ७.३ प्रतिशतं वर्धितम्, येन देशे याचना-विस्तारः सूचितः। अवसंरचना-क्षेत्रे निवेश-वृद्धेः कारणेन निर्माण-सामग्री-क्षेत्रे ११.५ प्रतिशतं वृद्धिः अभवत्।
उपभोक्ता-वस्तुषु, विशेषतः इलेक्ट्रॉनिक-सामग्री, शीतपेटिका तथा दूरदर्शन-यन्त्रेषु उत्पादनं ७.३ प्रतिशतं वर्धितम्, यत् देशे याचनायाः वृद्धिं दर्शयति। एषा वृद्धिः आय-वृद्धेः, मध्यम-वर्गस्य विस्तारस्य उपभोग-आधारित-अर्थव्यवस्थायाः सुदृढतायाः च संकेतः अस्ति।
अवसंरचना-क्षेत्रे सर्वकारेण कृतः व्यापक-निवेशः अपि आर्थिक-सुदृढतायाः प्रमुखः आधारः अस्ति। राजमार्ग-बन्दरगाह-रेल-परियोजनासु निवेश-वृद्धेः कारणेन अवसंरचना-निर्माण-सामग्री-क्षेत्रे फरवरीमासे ११.५ प्रतिशत-वृद्धिः अभिलेखिता। एताः परियोजनाः रोजगार-सृजनं कुर्वन्ति, उद्योगानां व्ययः अपि न्यूनयन्ति, प्रतिस्पर्धात्मकतां च वर्धयन्ति।
विदेश-निवेश-प्रवाहः, ‘मेक-इन-इण्डिया’ इत्यादयः योजनाः, डिजिटल-अर्थव्यवस्थायाः विकासः च भारतस्य आर्थिक-सुदृढतां वर्धयन्ति। समग्रतया एते संकेताः दर्शयन्ति यत् भारतदेशः सुदृढाम् आत्मनिर्भरां, वैश्विक-प्रतिस्पर्धीं च अर्थव्यवस्थां प्रति अग्रे गच्छति।
हिन्दुस्थान समाचार / अंशु गुप्ता