महावीर जयंतीम् आधृत्य निर्गता शोभायात्रा
पूर्वी सिंहभूमः, 31 मार्चमासः (हि.स.)। महावीर-जयन्त्याः अवसरे बिष्टुपुर-स्थितेन जैन-समाजेन भगवान महावीर स्वामी-जन्म-कल्याणक-महोत्सवस्य अन्तर्गतं मङ्गलवासरे भव्यः शोभायात्रा-उत्सवः आयोजितः। श्रद्धा-उत्साहाभ्यां पूर्णायाः अस्याः शोभायात्रायाः स्वा
महावीर जयंती पर निकाली गई शोभायात्रा का स्वागत करते सरयू राय और फलाहार वितरण


महावीर जयंती पर निकाली गई शोभायात्रा का स्वागत करते सरयू राय और फलाहार वितरण


महावीर जयंती पर निकाली गई शोभायात्रा का स्वागत करते सरयू राय और फलाहार वितरण


पूर्वी सिंहभूमः, 31 मार्चमासः (हि.स.)।

महावीर-जयन्त्याः अवसरे बिष्टुपुर-स्थितेन जैन-समाजेन भगवान महावीर स्वामी-जन्म-कल्याणक-महोत्सवस्य अन्तर्गतं मङ्गलवासरे भव्यः शोभायात्रा-उत्सवः आयोजितः। श्रद्धा-उत्साहाभ्यां पूर्णायाः अस्याः शोभायात्रायाः स्वागतं जमशेदपुर-पश्चिम-क्षेत्रस्य विधायकः सरयू राय स्वगृहस्य समीपे अकरोत्।

अस्मिन् अवसरे सरयू-रायः स्वयमेव अग्रे गत्वा शोभायात्रायां सहभागिभ्यः श्रद्धालुभ्यः फलाहारं शर्बतं च वितरितवान्। तेन उक्तं यत् सेवा एव महान् धर्मः अस्ति, एषा भावना सर्वेषु धर्मेषु समानरूपेण महत्त्वपूर्णा अस्ति। अस्मिन् प्रसङ्गे तेन राजगीर-नगरात् आगताभ्यां साध्वी सधान्जी तथा साध्वी कल्याणी इत्येताभ्यां नमस्कृत्य आशीर्वादः अपि प्राप्तः।

शोभायात्रायां बहवः जैन-समाजस्य जनाः सहभागीभूताः, येषु राजेन-भाई-कमानी, नकुल-भाई-कमानी, हर्षद-भाई-गान्धी, परेश-भाई-सेठ, नरेन्द्र-भाई-दोशी, मुकेश-भाई-गान्धी, मिलन-भाई-वैद्य, भाविन-भाई-मोदी, मनीष-भाई-उडानी, किलोल-भाई-भयाणी, राहुल-भाई-भयाणी, चन्द्रकान्त-देसाई, धीरेन-मेहता इत्यादयः अन्ये च प्रमुखाः जनाः उपस्थिताः आसन्। सर्वे अपि सरयू-रायस्य सेवाभावं प्रशंसितवन्तः।

तथा सरयू-रायस्य निवासस्य समीपे श्रद्धालूनां सेवायां वरिष्ठ-समाजसेवकाः अशोक-गोयल, सुबोध-श्रीवास्तव, देवकुमार-वर्मा, सन्नी-सिंह, दिनेश-सिंह, उदय-मण्डल, अमित-देउड़ी इत्यादयः बहवः जनाः सक्रियतया संलग्नाः आसन्।

---------------

हिन्दुस्थान समाचार