Enter your Email Address to subscribe to our newsletters

हुगली, 31 मार्चमासः (हि.स.)।
पश्चिमबङ्गालस्य हुगली-जिलायाः जंगीपाड़ा-विधानसभा-आसनम् अस्मिन् निर्वाचन-काले अत्यन्तं रोचकं बहुकोणीयं स्पर्धा-केंद्रं जातम् अस्ति। श्रीरामपुर-लोकसभा-क्षेत्रस्य अन्तर्गतं स्थितम् एतत् आसनं दीर्घकालं यावत् वामपक्षस्य गढः आसीत्, किन्तु २०११ वर्षात् अनन्तरं अखिल भारतीय तृणमूल कांग्रेस अत्र स्वस्य दृढं आधिपत्यं स्थापितवती। गत-पञ्चदश-वर्षेषु स्नेहाशीष चक्रवर्ती एतस्य आसनस्य प्रतिनिधित्वं कृतवान्, येन तस्य संगठनात्मक-प्रशासनिक-प्रभावः क्षेत्रे गाढः मन्यते।
अस्मिन् वारे निर्वाचनस्य प्रमुखं आकर्षणं भारतीय जनता पार्टी-पक्षस्य प्रत्याशी प्रसेनजीत बाग अस्ति, यः अत्यन्त-साधारण-कुटुम्बात् आगतः, अद्यापि मृत्तिका-गृहे वसति। द्वादश-श्रेणी-उत्तीर्णः बाग पूर्वं राष्ट्रीय स्वयंसेवक संघ-संघेन सम्बद्धः आसीत्, तथा भाजपा-संगठने तस्य सुदृढा ग्रंथिः अस्ति। सः पूर्वम् अपि अस्मात् आसनात् निर्वाचनं स्पर्धितवान्, अतः तस्मै स्थानीय-राजनीतिः मतदातॄणां च अभिप्रायः सम्यक् ज्ञातः अस्ति। तस्य सरलता-भूमिसम्बद्ध-जीवनशैली च भाजपा-पक्षेन “सामान्यजनस्य परिचयः” इति रूपेण प्रचार्यते, या ग्राम्य-मतदातृषु विशेषं प्रभावं जनयति।
अन्यतः तृणमूल-कांग्रेस-पक्षस्य प्रत्याशी स्नेहाशीष-चक्रवर्ती अनुभवी शिक्षितश्च नेता अस्ति। सः स्नातकोत्तर-उपाधिधारी अस्ति, राज्यस्य परिवहन-मन्त्री अपि आसीत्। तृणमूल-पक्षः तस्य अनुभवं प्रशासनिक-क्षमतां च स्वस्य बलरूपेण प्रस्तुतयति। तथापि तस्य विरुद्धं स्थानीय-स्तरे असन्तोषः अपि दृश्यते, विशेषतः संपर्क-परिवहन-सेवयोः विषये।
अस्मिन् आसने कांग्रेस-पक्षेन शुभाशीष दत्ता नामकः अधिवक्ता प्रत्याशी कृतः, यः शिक्षितः व्यावसायिक-प्रतिमया सह निर्वाचन-क्षेत्रे प्रविष्टः। तथा मार्क्सवादी कम्युनिस्ट पार्टी-पक्षेन सुदीप्तो सरकार नाम प्रत्याशी नियुक्तः, यस्य इंडियन सेक्युलर फ्रंट-पक्षस्य समर्थनम् अस्ति। अनेन अल्पसंख्यक-मतानां विभाजनस्य सम्भावना वर्धिता, निर्वाचन-समीकरणं च अधिकं जटिलं जातम्।
जंगीपाड़ा-क्षेत्रस्य सामाजिक-संरचना अपि अस्य निर्वाचनस्य विशेषतां जनयति। अत्र मुस्लिम-मतदातारः पर्याप्त-संख्यायां सन्ति, सह ओबीसी तथा अनुसूचित-जाति-समुदायाः अपि निर्णायक-भूमिकां वहन्ति। ग्राम्य-अर्धनगरीय-क्षेत्रयोः मिश्रणयुक्ते अस्मिन् प्रदेशे कृषिः लघु-व्यापारः दैनिक-श्रमः च प्रमुखाः आजीविकाः सन्ति। अस्य विधानसभा-क्षेत्रस्य अन्तर्गतं स्थितं फुरफुरा-शरीफ धार्मिक-केन्द्रं निर्वाचन-दृष्ट्या अत्यन्तं महत्त्वपूर्णं मन्यते।
सूफी-परम्परया सम्बद्धम् एतत् धार्मिक-केन्द्रं अल्पसंख्यक-मतदातृषु गाढं प्रभावं धारयति। अत्रस्थ-धार्मिक-नेतृत्वस्य सामाजिक-प्रभावस्य च निर्वाचन-फलितेषु प्रभावः निश्चयेन भविष्यति, विशेषतः यदा इंडियन सेक्युलर फ्रंट सक्रिय-भूमिकायां वर्तते।
स्थानीय-विषयेषु अस्मिन् वारे संपर्क-व्यवस्था प्रमुखः निर्वाचन-विषयः अभवत्। जनाः आरोपं कुर्वन्ति यत् परिवहन-मन्त्री भवित्वापि स्नेहाशीष-चक्रवर्ती क्षेत्रे बस-सेवायाः मार्ग-संपर्कस्य च अपेक्षितं सुधारं कर्तुं न शक्तवान्। अनेकाः बस-मार्गाः निरुद्धाः इति अपि शिकायताः सन्ति, येन ग्राम्य-क्षेत्रेषु जनानां गमनागमनं कठिनं जातम्, रोजगार-शिक्षयोः अपि प्रभावः जातः।
तत्सह स्वास्थ्य-सेवायाः स्थितिः अपि गम्भीर-चिन्तायाः विषयः अस्ति। जंगीपाड़ा-अस्पताले वैद्य-अभावः उपकरण-अभावः मूलभूत-सुविधानां न्यूनता च दृश्यते, येन स्थानीय-जनाः असन्तुष्टाः सन्ति। बहवः रोगिणः उत्तम-चिकित्सार्थं दूर-नगराणि गन्तुं बाध्यन्ते, येन सामान्य-जनानां भारः वर्धते।
युवा-मतदातारां कृते रोजगारः अपि प्रमुखः विषयः अस्ति। स्थानीय-स्तरे उद्योग-अवसर-अभावात् बहवः युवानः बहिः गत्वा कार्यं अन्विष्यन्ति। ग्राम्य-मतदातारः तु परिवहन-स्वास्थ्य-इत्यादि मूलभूत-सुविधानां सुधारं याचन्ते।
समग्रतया जंगीपाड़ा-विधानसभा-आसनस्य अयं संघर्षः केवलं राजनैतिक-दलानां मध्ये न, अपि तु द्वयोः भिन्नयोः प्रतिमयोः—अनुभवस्य तथा सरलतायाः—मध्ये प्रत्यक्षः संघर्षः जातः अस्ति। अधुना द्रष्टव्यं यत् मतदातारः दीर्घकालीन-स्थापित-नेतृत्वे विश्वासं कुर्वन्ति उत वा “मृत्तिका-गृह”-सम्बद्धं भूमिस्थं प्रत्याशिनं अवसरं दास्यन्ति।
---------------
हिन्दुस्थान समाचार