‘हाईवेमार्गलुंठनम्’ अथ सामान्यजनस्य धनचौर्यमिव टोलप्रतिमिता करवृद्धि: - कांग्रेसदलम्
बेंगलुरुः, 31 मार्चमासः (हि.स.)। समग्रदेशे १ एप्रिल्-दिनात् आरभ्य प्रवर्तमाना राष्ट्रिय-राजमार्ग-शुल्कवृद्धिं प्रति भारतीयराष्ट्रिय कांग्रेस-पक्षः केन्द्र-सर्वकारं प्रति तीक्ष्णं प्रहारं कृतवान्। काङ्ग्रेस्-पक्षेण एषा वृद्धि सामान्यजनानां उपरि म
Surjewala pc


बेंगलुरुः, 31 मार्चमासः (हि.स.)।

समग्रदेशे १ एप्रिल्-दिनात् आरभ्य प्रवर्तमाना राष्ट्रिय-राजमार्ग-शुल्कवृद्धिं प्रति भारतीयराष्ट्रिय कांग्रेस-पक्षः केन्द्र-सर्वकारं प्रति तीक्ष्णं प्रहारं कृतवान्। काङ्ग्रेस्-पक्षेण एषा वृद्धि सामान्यजनानां उपरि महङ्गतायाः नूतनभारः इति निर्दिष्टा।

मङ्गलवासरे बेंगलुरु-स्थिते राज्य-काङ्ग्रेस्-पक्षस्य कार्यालये काङ्ग्रेस्-सांसदः रणदीप सिंह सुरजेवाला पत्रकारैः सह संवादं कृतवान्। सुरजेवाला उक्तवान् यत्—१ एप्रिल्-दिनात् शुल्कवृद्धिः जनानां वित्तकोषं प्रति प्रत्यक्षः प्रहारः अस्ति। एषा ‘हाइवे-लूट’ इव तथा च सामान्यजनानां धनस्य अपहरणस्य सदृशी अस्ति। अस्य निर्णयस्य कारणात् श्रमिकवर्गः मध्यमवर्गः च आर्थिकदृष्ट्या अधिकदबावं अनुभविष्यतः। पूर्वमेव महङ्गतया पीडितानां जनानां कृते एषः अतिरिक्तभारः अस्ति।

सुरजेवाला उक्तवान् यत्—वर्षे २०१९-२० आरभ्य अद्यपर्यन्तं केवलं कर्नाटक-राज्ये एव टोल-कररूपेण प्रायः २३ सहस्रकोटि-रूप्यकाणि संगृहीतानि। अधुना पञ्चप्रतिशतवृद्ध्या राज्यस्य जनानां उपरि प्रायः २५० कोटि-रूप्यकाणां अतिरिक्तभारः भविष्यति। केन्द्र-सरकारस्य नीतिं आलोच्य सः उक्तवान् यत्—शुल्कवृद्धिः जनधनस्य लूटस्य साधनं जातम्। नरेन्द्र मोदिनो नेतृत्वयुक्तः सर्वकारः अस्य विषये उत्तरं दातुम् अर्हति।

---------------

हिन्दुस्थान समाचार