Enter your Email Address to subscribe to our newsletters

भोपालम्, 31 मार्चमासः (हि.स.)।मध्यप्रदेशस्य मुख्यमंत्री डॉ. मोहन यादवो मङ्गलवासरे बिहार-राज्यस्य नालन्दा-जिलायाः शीतला-माता-मन्दिरे जातायाः दुर्घटनायाः विषये गाढं शोकं व्यक्तवान्।
मुख्यमंत्री डॉ. यादवः सामाजिकेन ‘एक्स’ माध्यमेन उक्तवान्— “बिहारस्य नालन्दा-जिलायाः शीतला-माता-मन्दिरे जाता दुर्घटना अत्यन्तं दुःखदायिनी अस्ति। दिवंगत-श्रद्धालुभ्यः विनम्राः श्रद्धाञ्जलयः। शोकाकुल-परिजनानां प्रति मम गाढाः संवेदनाः सन्ति। ईश्वरं प्रति प्रार्थये यत् दिवंगतानां आत्मनां शान्तिः भवतु तथा च सर्वेषां घायितानां शीघ्रं स्वास्थ्य-लाभः भवतु।
हिन्दुस्थान समाचार