Enter your Email Address to subscribe to our newsletters

इंदौर, 31 मार्चमासः (हि.स.)।
मध्यप्रदेशस्य जल-संसाधन-मन्त्री तुलसीराम सिलावट महोदयः मङ्गलवासरे इन्दौर-जिलायाः सांवेर-विधानसभा-क्षेत्रस्य नगरीय-निकायस्य वार्ड-संख्या १९ मध्ये प्रायः २०-कोटि-रूप्यक-मूल्येन विविध-विकास-कार्याणां लोकार्पणं भूमिपूजनं च कृतवान्। अस्मिन् अवसरे सः उक्तवान् यत् वार्ड-१९ आगामिषु वर्षेषु सर्वसुविधायुक्तः आदर्श-वार्डरूपेण विकसितः भविष्यति।
सिलावट महोदयः अवदत् यत् गत-षट्-वर्षेषु नगर-पालिका-निगमेन वार्ड-१९ मध्ये प्रायः ५०-कोटि-रूप्यक-व्ययेन सीसी-मार्गाः, मार्गाः, विद्युत्-व्यवस्था, पेय-जल-व्यवस्था, पुलिकाः, ड्रेनेज-व्यवस्था, नालिकाः, स्टॉर्म-वाटर-लाइनाः, आङ्गनवाड़ी-केन्द्राणि, सामुदायिक-भवनानि मुक्तिधामानि च इत्यादीनि आधारभूत-विकास-कार्याणि सम्पन्नानि। तेन सह वार्ड-संख्या १८, ३५-३६ तथा ७६ मध्ये अपि प्रायः ५००-कोटि-रूप्यक-व्ययेन व्यापक-विकास-कार्याणि सम्पन्नानि, येषु मार्गाः, ओवरब्रिजाः, फ्लायओवराः, सीवरेज-व्यवस्था, जल-संरचनाः, संजीवनी-चिकित्सालयाः, विद्यालय-भवनानि उद्यान-विकासः च अन्तर्भवन्ति।
मन्त्री सिलावटः उक्तवान् यत् भंवरासला-अरविंदो-प्रदेशस्य समीपे प्रायः २-कोटि-रूप्यक-व्ययेन सरोवर-सौन्दर्यीकरण-कार्यं प्रगतौ अस्ति, येन क्षेत्रस्य सौन्दर्यं पर्यावरणीय-सन्तुलनं च उन्नतं भविष्यति। तेन सह क्षेत्रे आधुनिक-बस-स्थानकं, ओवरब्रिजाः फ्लायओवराः च विकसिताः सन्ति, येषां लाभः नागरिकानां प्राप्तः भविष्यति।
सः अवदत् यत् अद्यतनकाले मुख्यमंत्री डॉ. मोहन यादव महोदयेन इन्दौर-नगरे १३५६-कोटि-रूप्यक-व्ययेन पेय-जल-नलिकाः जल-टंक्यः च इत्येतयोः भूमिपूजनं कृतम्, येन क्षेत्रस्य जल-आपूर्ति-व्यवस्था अधिकं सुदृढा भविष्यति। अद्यतन-कार्यक्रमे अपि प्रायः २०-कोटि-रूप्यक-व्ययेन नव-विकास-कार्याणां शुभारम्भः कृतः।
मन्त्री सिलावटोऽवदत् यत् फरवरी २०२५ मासे अपि अत्र प्रायः १०-कोटि-रूप्यक-व्ययेन विकास-कार्याणां लोकार्पणं भूमिपूजनं च कृतम्। तेन अपि उक्तं यत् कुमेड़ी-प्रदेशे गत-मासे प्राप्तस्य दूषित-जल-समस्यायाः शीघ्रं समाधानं कृतम्।
सः अपि अवदत् यत् अमृत-२.०-योजनायाः अन्तर्गतं ३०५-कोटि-रूप्यक-व्ययेन सीवरेज-ड्रेनेज-रेखा-निर्माण-कार्यं प्रगतौ अस्ति, येन वार्ड-१९ सहितं समीपवर्ती-प्रदेशानां निवासिनः व्यापक-लाभं प्राप्स्यन्ति।
अस्मिन् कार्यक्रमे महापौरः पुष्यमित्र भार्गव, विधायकः रमेश मेंदोला, एमआईसी-सदस्यः राजेन्द्र राठौर, पार्षदः संध्या जायसवाल, विपिन जागीरदार सहिताः अन्ये स्थानीय-जनप्रतिनिधयः, अधिकारीगणाः बहुसंख्यकाः स्थानीय-नागरिकाश्च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार