प्रधानमन्त्री मोदी सूरीनामदेशस्य पूर्व-राष्ट्रपति: चंद्रिका-प्रसाद-संतोखी इत्यस्य निधनाय शोकं व्यक्तवान्
नवदिल्ली, ३१ मार्चमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी सूरीनामदेशस्य पूर्व-राष्ट्रपति चंद्रिका-प्रसाद-संतोखी इत्यस्य निधनाय शोकं व्यक्तवान्। स उक्तवान् यत् अस्याः घटनाया: प्रभावः केवलं सूरीनामस्यैव न, अपितु वैश्विक-भारतीय-प्रवासी-समुदायस्य अपूरण
प्रधानमंत्री नरेन्द्र मोदी सूरीनाम के पूर्व राष्ट्रपति चंद्रिका प्रसाद संतोखी के साथ  मुलाकात के दौरान।


नवदिल्ली, ३१ मार्चमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी सूरीनामदेशस्य पूर्व-राष्ट्रपति चंद्रिका-प्रसाद-संतोखी इत्यस्य निधनाय शोकं व्यक्तवान्। स उक्तवान् यत् अस्याः घटनाया: प्रभावः केवलं सूरीनामस्यैव न, अपितु वैश्विक-भारतीय-प्रवासी-समुदायस्य अपूरणीय-क्षति: च अस्ति।

प्रधानमन्त्री एक्स-मध्ये लिखितवान् –“संतोखी मम मित्रम् आसीत्, तेन सह संप्राप्त-संवाद-सम्पर्कस्य स्मृतयः सर्वदा जीविता: स्युः। ते सूरीनामस्य सेवायै अथक-प्रयत्नशीलाः आसन् तथा भारत-सूरीनाम सम्बन्धस्य दृढीकरणे महत्त्वपूर्णं योगदानम् अकरोत्। संतोखी भारतीय-संस्कृतिं प्रति विशेष-सम्बद्धतां आसक्तवान्; स: संस्कृतेन शपथं गृह्णाति स्म, यत् बहूनां हृदयेषु आदरम् अजनयत्।”

प्रधानमन्त्री मोदी अस्मिन् शोक-क्षणे संतोखी-परिवारं तथा सूरीनाम-जनता: प्रति गम्भीर-संवेदनां व्यक्तवान् तथा श्रद्धांजलिम् अर्पितवान्। स: संतोखी-सह विविध-संवाद-संस्मृतिचित्राणि अपि एक्स-मध्ये स्थापितवान्।

उल्लेखनीयम् यत् भारतीय-मूलस्य चंद्रिका-प्रसाद-संतोखी २०२० तमे वर्षे राष्ट्रपति-पदं ग्रहणं कृत्वा कार्यं आरब्धवान्। तस्य जन्मदिनम् ३ फरवरीमासे १९५९। स: पूर्वं आरक्षक-अधिकारी आसीत्, अनन्तरं राजनीति-क्षेत्रे सक्रिय:। संतोखी सूरीनामे विधान-व्यवस्था-संशोधनम् प्रशासनिक-पारदर्शितां च दृढीकर्तुं महत्त्वपूर्णं योगदानम् अयच्छत्। स: भारतीय-मूल-प्रवासी-समुदाये विशेष-लोकप्रिय: आसीत् तथा भारत-सूरीनाम सम्बन्धस्य दृढीकरणे निरन्तरं प्रयत्नशील: आसीत्। स: विशेष-ख्यातिं लब्धवान् यदा स: राष्ट्रपति-पदस्य शपथ संस्कृतेन गृह्णाति स्म, भारतीय-सांस्कृतिक-परम्परां प्रति श्रद्धांजलिं प्रदर्शयत्।

हिन्दुस्थान समाचार / अंशु गुप्ता