प्रधानमंत्री मोदी भगवान महावीर जयंत्याम् अददात् करुणादययोः मार्गे चलितुं संदेशम्
नव दिल्ली, 31 मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी अद्य भगवतो महावीरस्य जन्मकल्याणकस्य अवसरे देशवासिभ्यः शुभाशंसाः अददात्। तेन उक्तम् यत् भगवान् महावीरस्य जीवनम् तथा तेषां उपदेशाः सत्य-अहिंसा-करुणा मार्गं प्रकाशयन्ति। प्रधानमन्त्रिणा ‘
पंतप्रधान नरेंद्र मोदी


नव दिल्ली, 31 मार्चमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्र मोदी अद्य भगवतो महावीरस्य जन्मकल्याणकस्य अवसरे देशवासिभ्यः शुभाशंसाः अददात्। तेन उक्तम् यत् भगवान् महावीरस्य जीवनम् तथा तेषां उपदेशाः सत्य-अहिंसा-करुणा मार्गं प्रकाशयन्ति।

प्रधानमन्त्रिणा ‘एक्स्’ इत्यस्मिन् माध्यमे प्रकाशिते सन्देशे उक्तम् यत् भगवान् महावीरस्य आदर्शाः आध्यात्मिकरूपेण प्रेरणादायकाः सन्ति तथा अद्यतनकाले अपि अत्यन्तं प्रासंगिकाः वर्तन्ते। समता तथा दयायाः विषये तेषां बलप्रदर्शनम् अस्मान् समाजस्य प्रति अस्माकं सामूहिकदायित्वस्य स्मरणं कारयति।

प्रधानमन्त्री अपरस्मिन् सन्देशे उक्तवान् यत् सत्य, सद्भाव, सद्व्यवहार तथा समता इत्येषु आधारिताः भगवान् महावीरस्य उपदेशाः अद्भुतां प्रेरणां ददति। तेषां महान् विचाराः सदा मानवतायाः पथप्रदर्शकाः भविष्यन्ति।

प्रधानमन्त्री संस्कृतभाषायां सुभाषितम् अपि सहकृतवान्— “श्रूयतां धर्मसर्वस्वं श्रुत्वा चैव अवधार्यताम्। आत्मनः प्रतिकूलानि परेषां न समाचरेत्॥”

अस्य सुभाषितस्य अर्थः अस्ति— यः व्यवहारः स्वयम् प्रति न रोचते, तादृशः व्यवहारः अन्येषां प्रति अपि न कर्तव्यः।

उल्लेखनीयम् यत् भगवान् महावीरस्य जन्मकल्याणकः जैनधर्मस्य चतुर्विंशतितमस्य तीर्थंकरस्य जन्मदिवसत्वेन उत्सवेन आचर्यते। जैनपरम्परानुसारं तेषां जन्म ५९९ ईसा पूर्वे वैशाली-नगरस्य कुंडलपुरे अभवत्।

अस्मिन् दिने मन्दिरेषु विशेषपूजा, रथयात्राः तथा प्रवचनानि आयोज्यन्ते। महावीरजयन्त्याः मुख्यसन्देशः अहिंसा, सत्य, अपरिग्रह तथा समता इत्येषु आधारितः अस्ति।

---------------

हिन्दुस्थान समाचार