Enter your Email Address to subscribe to our newsletters

नवदिल्ली, ३१ मार्चमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य गुजरात-प्रवासे उपविष्ट: भविष्यति। महावीर-जयंती-अवसरे स: गांधीनगरे कोबा-तीर्थे सम्राट सम्प्रति संग्रहालयम् उद्घाटयिष्यति तथा जनसभायाम् भाषणं करिष्यति। अपराह्णकाले अहमदाबाद-सानंदे केयन्स-सेमीकॉन-प्लांट-उद्घाटयिष्यति। ततः वाव-थराद् गत्वा २०,००० कोट्यधिक-रूप्यकाणां विकास-परियोजनानां आधारशिलां स्थापयिष्यति, उद्घाटयिष्यति च तथा राष्ट्राय समर्पयिष्यति।
सम्राट सम्प्रति संग्रहालयम् जैनधर्मस्य ऐतिहासिकं, सांस्कृतिकं च वैभवं दर्शयति। एषः संग्रहालयः सप्त खण्डानि, दुर्लभ-मूर्तयः, पाण्डुलिपयः, रथाः, चित्रकला: च प्रदर्शयति।
सेमीकॉन-प्लांट् भारतस्य उत्पादन-क्षेत्रे महत्वपूर्णा उपलब्धिः भविष्यति। परियोजनायाः अन्तर्गतं उन्नत-इलेक्ट्रॉनिक्-उत्पादनं आरभ्यते।विकास-परियोजनाः विद्युत्-रेल-मार्ग-स्वास्थ्य-शहरी-ग्रामीण-विकासम् आवृण्वन्ति। अहमदाबाद-धोलेरा एक्सप्रेस-वे, फ्लाईओवर्, जल-पाइपलाइन परियोजनाः उद्घाट्यन्ते।
प्रधानमन्त्री मोदी शहरी-स्वास्थ्य, शिक्षा, पर्यटन तथा साबरमती नदीतट-विस्तार-परियोजनानां उद्घाटनं अपि करिष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता