Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 31 मार्चमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्र मोदी बिहारराज्यस्य नालंदा-जिले घटिते दुःखददुर्घटनायां गहनं शोकं व्यक्तवान् तथा मृतानां परिजनानां कृते आर्थिकसहाय्यस्य घोषणां कृतवान्। प्रधानमन्त्री उक्तवान् यत्—अस्यां दुर्घटनायां ये जनाः मृताः, तेषां प्रत्येकस्य परिजनाय प्रधानमन्त्री-राष्ट्रीय-राहत-कोषतः द्वे द्वे लक्षे रूप्यकाणि अनुग्रहधनरूपेण प्रदास्यन्ते, तथा च घायलेभ्यः पञ्चाशत्सहस्ररूप्यकाणि सहाय्यरूपेण दास्यन्ते।
प्रधानमन्त्रिणः कार्यालयस्य आधिकारिक-एक्स-सन्देशे एषा घटना अत्यन्तं दुःखदा इति उक्तम्। सः शोकसन्तप्तपरिवारान् प्रति संवेदनां प्रकट्य उक्तवान् यत्अस्मिन् कठिनकाले मम संवेदनाः पीडितपरिवारैः सह सन्ति। सहैव सः घायलेषु शीघ्रस्वास्थ्यलाभाय कामनां कृतवान्।
उल्लेखनीयम् यत्नालंदाजिले मघडा-ग्रामे स्थिते माता-शीतलाष्टमी-मन्दिरे मङ्गलवासरे अतिविशाले जनसमूहे आकस्मिकतया जनौघःअभवत्। अस्मिन् दुःखदहादसे न्यूनातिन्यूनं अष्ट श्रद्धालवः मृताः, तथा षट् अधिकाः जनाः घायिताः अभवन्।
---------------
हिन्दुस्थान समाचार