प्रधानमन्त्री मोदी कोबानगरे सम्राट् सम्प्रति-संग्रहालयस्य उद्घाटनम् अकरोत्
गांधीनगरम्, ३१ मार्चमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी अहमदाबादं प्राप्त:, तत्र मुख्यमंत्रिणा तथा राज्यपालेन च स्वागतं कृतम्। ततः ते कोबानगरं प्रस्थिताः। प्रधानमन्त्री मोदी एकमासे द्वितीयवारं गुजरातं आगत:। स: महावीर-जयंती-अवसरं दृष्ट्वा कोबान
गुजरात दौरे पर प्रधानमंत्री नरेंद्र मोदी


गांधीनगरम्, ३१ मार्चमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी अहमदाबादं प्राप्त:, तत्र मुख्यमंत्रिणा तथा राज्यपालेन च स्वागतं कृतम्। ततः ते कोबानगरं प्रस्थिताः।

प्रधानमन्त्री मोदी एकमासे द्वितीयवारं गुजरातं आगत:। स: महावीर-जयंती-अवसरं दृष्ट्वा कोबानगरे स्थितं ‘सम्राट् सम्प्रति-संग्रहालयं’ उद्घाटितवान्।

अस्मिन अवसरे प्रधानमन्त्रिणा राष्ट्रसंत-पूज्य-आचार्य-पद्मसागर-सूरीश्वरस्य आशीर्वादं प्राप्तम्। कार्यक्रमे राज्यपाल: आचार्यदेवव्रतः, मुख्यमंत्री भूपेन्द्रभाईपटेलः, गृहराज्यमन्त्री च उपमुख्यमंत्री हर्ष: संघवी, तथा महावीरजैन: आराधनाकेन्द्रस्य अध्यक्षः सुधीरमेहता इत्यादयः देशविस्तरेषु गणमान्यजनाः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / Dheeraj Maithani