Enter your Email Address to subscribe to our newsletters

पारामारिबो, ३१ मार्चमासः (हि.स.)।दक्षिण- अमेरिकीदेश-सूरीनामस्य पूर्वराष्ट्रपतिन: चंद्रिकाप्रसाद-संतोखी-इत्यस्य अस्मिन् सोमवासरे अकस्मात् निधनं अभवत्। से: ६७ वर्षे आयुषि आसीत्। अस्य निधनस्य पुष्टि: वर्तमान-राष्ट्रपति: जेनिफरसिमंस: कृतवती।
संतोखी २०२० तः २०२५ पर्यन्तं सूरीनामस्य राष्ट्रपतित्वेन कार्यं कृतवान्। स: प्रोग्रेसिव-रिफॉर्म-पक्षस्य अध्यक्ष: अपि आसीत्, पूर्वं २००५–२०१० तमे वर्षे न्यायमन्त्री इव देशसेवायाम् अग्रसर: आसीत्।
राष्ट्रपति: जेनिफर-सिमंस: सामाजिक-माध्यमे उक्तवती यत् संतोखी जनस्य सार्वजनिकजीवने योगदानं दीर्घकालं स्मर्यते। स: देशस्य विभिन्नेषु महत्वपूर्णपदेषु उल्लेखनीयं सेवाम् कृतवान्। अधुना यावत् निधनस्य कारणं प्रकाश्यम् नागतम्।
अकस्मात् निधनात् देशे शोक-तरंग: उत्पन्न:, राजनैतिके सामाजिके च क्षेत्रे तस्मै श्रद्धांजलि: प्रदत्ताः।
हिन्दुस्थान समाचार / अंशु गुप्ता