Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 31 मार्चमासः (हि.स.)। उत्तराखण्ड-राज्यस्य रेशम-विभागस्य निदेशकः प्रदीप कुमार महोदयस्य नेतृत्वे विभागीय-अधिकारिणः मङ्गलवासरे राष्ट्रीय-स्तरस्य प्रतिष्ठितं ‘स्कोच-अवार्ड्’ इति सम्मानं राज्यस्य कृषि-मन्त्री गणेश जोशी महोदयाय समर्पितवन्तः।
देहरादून-नगरे स्थिते कैम्प-कार्यालये आयोजिते कार्यक्रमे अधिकारिणः अवदन् यत् विभागाय एषः सम्मानः उत्तराखण्ड-राज्ये रेशमकीट-बीज-उत्पादन-क्षेत्रे उत्कृष्ट-कार्यस्य कारणेन प्राप्तः।
अस्मिन् अवसरे कृषि-मन्त्री गणेश जोशी महोदयः विभागीय-अधिकारिणः कर्मचारिणश्च अभिनन्दनं कृत्वा अवदत् यत् रेशम-विभागेन बीज-उत्पादने आत्मनिर्भरता-प्राप्तिः राज्यस्य गौरवस्य विषयः अस्ति। सः अपि अवदत् यत् अस्य उपलब्धेः कारणेन प्रदेशे नूतन-रोजगार-अवसराः सृज्यन्ते तथा कृषकाः आर्थिक-लाभं प्राप्नुवन्ति।
निदेशकः प्रदीप कुमारोऽवदत् यत् रेशमकीट-बीज-उत्पादन-कार्यक्रमस्य अन्तर्गतं उच्च-गुणवत्तायुक्तानि बीजानि निर्माय राज्यस्य विभिन्न-जनपदेषु कीट-पालकेभ्यः प्रदीयन्ते, येन सम्बद्धाः प्रायः १०० कृषकाः लाभान्विताः भवन्ति।
अस्मिन् अवसरे सहायक-निदेशकः विनोद तिवारी, डॉ बी पी गुप्ता, उम्मेद सिंह, वीरेन्द्र कुमार सकलानी, सुप्रिया रावत सहिताः अन्ये विभागीय-अधिकारिणः कर्मचारिणश्च उपस्थिताः आसन्।
हिन्दुस्थान समाचार