Enter your Email Address to subscribe to our newsletters

न्यूयॉर्क/तेहराननगरम्, ३१ मार्चमासः (हि.स.)
संयुक्त-राष्ट्रस्य (यूएन) अधिकारी मोहम्मद-सफा पदत्यागं कृतवान्, ईरान-नगरे संभावित-परमाणु-आक्रमण-सम्बन्धि-गंभीर-सावधानी-सूचनां प्रदत्तवान्। स: ‘एक्स’ मध्ये उक्तवान् यत् तेहरानस्योपरि बृहत्तर-आक्रमणयोजना क्रियामाणा अस्ति, किन्तु वैश्विकस्तरे पर्याप्ता गंभीरता न दृश्यते।
सफा उक्तवान् यत् “जनाः अस्य विषयस्य गंभीरतां न अवगच्छन्ति” तथा लक्षाधिकनागरिकान् प्रभावितं कर्तुं शक्याया: क्रियाया: सज्जा अस्ति। तेन कूटनीतिकजीवनं त्यक्तुं निर्णयः कृतः, यतः एषा सूचना मानवताविरुद्धं अपराधं प्रति सजगतां उत्पन्नं कर्तुं सहायकः।
से: '‘न्यूक्लियर विंटर’ इव परिस्थितेः सम्भावनां सूचितवान्, अस्मिन् समये विचारणम् अतीव आवश्यकं इति प्रतिपादितम्।
ईरान-प्रसङ्गे वर्धमानां चिन्तां दृष्ट्वा सफा-उक्ति: अन्ताराष्ट्रिय-चर्चायाः सूत्रं स्यात्। तथापि, एतै: कथनै: स्वतंत्रतया पुष्टि: न जाता, न च यूएन-कार्यालयात् आधिकारिकप्रतिक्रिया प्राप्ता।
संदेशस्य अन्ते स: वैश्विकसमुदायं सतर्कं भूत्वा परमाणु-शस्त्रस्य संभावित-उपयोगस्य विरुद्धं वक्तुं आह्वानं कृतवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता