Enter your Email Address to subscribe to our newsletters






नवदिल्ली, ३१ मार्चमासः (हि.स.)। उत्तरप्रदेशस्य बागपत-जनपदस्य सादिकपुर-सिनौली-चंदायन-ग्रामादिषु उत्खननात् प्राचीन-भारतीय-समृद्ध-संस्कृतेः शौर्यस्य च महत्वपूर्णानि प्रमाणानि प्राप्तानि। भारतीय-पुरातत्त्व-विभागेन अस्मिन् क्षेत्रे २९ एकर-परिमिता भूमिः संरक्षिता कृताऽस्ति।
उत्खनने युद्ध-रथाः, शाही-ताबूताः, काष्ठ-धनूंषि, अस्त्र-शस्त्राणि, स्वर्ण-आभरणानि, मृद्भाण्डानि तथा मानव-कङ्कालाः प्राप्ताः, ये महाभारत-कालस्य समृद्ध-संस्कृतेः संकेतं ददति। निर्माण-कलायाः, युद्ध-कौशलस्य तथा वैभवस्य प्रमाणानि अपि अत्र दृश्यन्ते।
पुरातत्त्व-विशेषज्ञैः उक्तं यत् एतानि प्रमाणानि सरस्वती-इण्डस-सभ्यतयोः समानान्तरां विकसितां संस्कृतिं दर्शयन्ति। उत्खननात् प्राप्ताः वस्तुतः वेद-पुराणादिषु वर्णितानां परम्पराणां समर्थनं कुर्वन्ति। कङ्कालैः अपि ज्ञायते यत् तस्य कालस्य जनाः बलिष्ठाः सुष्ठू-शरीरिणः च आसन्, महिलाः अपि युद्ध-कौशले निपुणाः आसन्।सिनौली-क्षेत्रं २००५ तमे वर्षे विशाल-शवाधान-केन्द्ररूपेण प्रसिद्धम् अभवत्। अत्र युद्ध-रथाः, ताम्र-निर्मित-खड्गाः, कवचानि, तीर-अग्राणि, स्वर्ण-कङ्कतानि इत्यादयः बहवः अवशेषाः प्राप्ताः। काष्ठ-निर्मितं प्राचीन-धनुः अपि प्राप्तम्, यत् महाभारत-कालीन-शौर्यस्य प्रतीकं मन्यते।
विशेषज्ञाः मन्यन्ते यत् बागपतजनपदस्य उल्लेखः महाभारतेऽपि अस्ति, तथा अयं प्रदेशः प्राचीन-वैदिक-परम्परायाः महत्त्वपूर्णं केन्द्रम् आसीत्। स्थानीय-जनाः सिनौली-ग्रामं पर्यटन-केन्द्ररूपेण विकसितुं संग्रहालय-निर्माणस्य च आग्रहं कृतवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता