भाजपा-प्रशिक्षिताः कार्यकर्तारः एव अभियान-२०२७ मध्ये विजयम् दापयिष्यन्ति : धर्मपाल-सिंहः
सुलतानपुरम्, ३१ मार्चमासः (हि.स.)। उत्तरप्रदेशस्य सुलतानपुर-जनपदे पण्डित-दीनदयाल-उपाध्याय-प्रशिक्षण-महाभियान-२०२६ अन्तर्गतं मङ्गलवासरे भाजपा-जनपद-कार्यालये काशी-क्षेत्रस्य जनपदाध्यक्षानां, जनपद-प्रभारिणां तथा मण्डल-प्रशिक्षण-प्रमुखानां महत्त्वपूर्ण
मुख्य अतिथि धर्म पाल सिंह


भाजपा कार्य कर्ता


सुलतानपुरम्, ३१ मार्चमासः (हि.स.)। उत्तरप्रदेशस्य सुलतानपुर-जनपदे पण्डित-दीनदयाल-उपाध्याय-प्रशिक्षण-महाभियान-२०२६ अन्तर्गतं मङ्गलवासरे भाजपा-जनपद-कार्यालये काशी-क्षेत्रस्य जनपदाध्यक्षानां, जनपद-प्रभारिणां तथा मण्डल-प्रशिक्षण-प्रमुखानां महत्त्वपूर्णा समीक्षा-रणनीति-सभा आयोजिता।

सभायाः अध्यक्षता काशी-क्षेत्राध्यक्षः दिलीप-पटेलः कृतवान्, मुख्यातिथिरूपेण भाजपा-प्रदेश-महामन्त्री धर्मपाल-सिंहः कार्यकर्तृभ्यः मार्गदर्शनं दत्तवान्। तेन स्पष्टं उक्तं यत् अभियान-२०२७ इत्यस्य सफलतायाः आधारः सुदृढाः प्रशिक्षिताः अनुशासिताः च कार्यकर्तारः एव भविष्यन्ति। तेन उक्तं यत् प्रशिक्षण-वर्गः केवलम् औपचारिकता न, अपितु सङ्घटनस्य विचारधारां कार्यपद्धतिं अनुशासनं च आत्मसात् कर्तुं माध्यमम् अस्ति। तेन प्रशिक्षणस्य सर्वान् नियमान् अक्षरशः पालनार्थं निर्देशाः दत्ताः। रात्रि-प्रवासस्य महत्त्वं निर्दिश्य तेन उक्तं यत् अनेन कार्यकर्तृषु समर्पणं अनुशासनं संघटनात्मक-एकात्मता च वर्धते, या अग्रिम-निर्वाचन-समस्याषु निर्णायकां भूमिकां निर्वहिष्यति।

सभायाः संचालनं क्षेत्रीय-उपाध्यक्षः अमरनाथ-यादवः कृतवान्। अस्मिन् अवसरे प्रशिक्षण-महाभियानस्य विस्तृता समीक्षा कृता तथा अग्रिम-कार्ययोजना निश्चिता। भाजपा-जनपद-मीडिया-प्रमुखेन विजय-रघुवंशिना उक्तं यत् सभायां काशी-क्षेत्रस्य षोडश-जनपदानां जनपदाध्यक्षाः, जनपद-प्रभारिणः तथा मण्डल-प्रशिक्षण-प्रमुखाः उपस्थिताः आसन्। प्रमुखरूपेण सुलतानपुर-जनपद-प्रभारी मीना-चौबे, अमेठी-जनपद-प्रभारी शंकर-गिरिः, सुलतानपुर-जनपदाध्यक्षः सुशील-त्रिपाठी, अमेठी-जनपदाध्यक्षः सुधांशु-शुक्लः, वाराणसीतः हंसराज-विश्वकर्मा, कौशाम्बीतः धर्मराज-मौर्यः, गाजीपुरतः ओम-प्रकाश-रायः, प्रतापगढ़-जनपदाध्यक्षः आशीष-श्रीवास्तवः, राकेश-त्रिवेदी, नागेन्द्र-रघुवंशी इत्येतैः सह अन्ये जनपद-पदाधिकारिणः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता