Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 31 मार्चमासः (हि.स.)।उत्तरप्रदेशस्य विकासमार्गे ऐतिहासिकलाभरूपेण नोएडा इंटरनेशनल एयरपोर्ट (जेवर) इत्यस्य लोकार्पणेन सह मीरजापुरजनपदस्य अपि नवानि अवसरद्वाराणि उद्घाटितानि सन्ति। प्रधानमन्त्रिणा नरेन्द्र मोदना लोकार्पितम् तथा मुख्यमन्त्री योगी आदित्यनाथ नेतृत्वे विकसितम् एतत् अत्याधुनिकं ग्रीनफील्ड-विमानस्थानकं प्रदेशाय वैश्विकसंपर्कं प्रदास्यति तथा ‘नव-उत्तरप्रदेशस्य’ आर्थिकगत्याः वेगं वर्धयिष्यति।
विमानस्थानकस्य प्रमुखविशेषताः
जेवरस्थितम् एतत् विमानस्थानकं आधुनिकतन्त्रज्ञानैः सुसज्जितं भविष्यति। अस्य प्रारम्भिकयात्रीक्षमता प्रति वर्षं प्रायः १.२ कोटिः भविष्यति, या अनन्तरं ७ कोटिपर्यन्तं वर्धिता भविष्यति। मालपरिवहनक्षेत्रे आरम्भे २.५ लक्षटनपर्यन्तं क्षमता भविष्यति, या अग्रे १५ लक्षटनपर्यन्तं विस्तारितुं योजनितम् अस्ति।
अस्य प्रमुखगुणाः— बहुविधसंयोजनव्यवस्था (एक्सप्रेसवे, बस, मेट्रो), डिजियात्रा-आधारित डिजिटलसेवाः, एमआरओ, लॉजिस्टिक्स-केन्द्रम्, भण्डारणव्यवस्था, हरितऊर्जानिर्भरं ‘नेट-शून्य-उत्सर्जन’ विन्यासः च सन्ति।
जिलाधिकारी पवनकुमार गंगवार उक्तवान् यत् एतत् विमानस्थानकं केवलं प्रदेशस्य न, अपि तु मीरजापुरादीनां जनपदानां विकासस्य अपि प्रमुखमाध्यमं भविष्यति। अनेन ओडीओपी-उत्पादानां वैश्विकपरिचयः वर्धिष्यते तथा स्थानिकयुवानां कृते नूतनरोजगारावसराः सृज्यन्ते। उत्तमसंपर्कव्यवस्थया निवेशः तथा पर्यटनम् अपि वर्धिष्यते, येन जनपदस्य समग्रविकासः नूतनदिशां प्राप्स्यति।
मीरजापुरस्य बहुआयामी लाभाः
अस्य विमानस्थानकस्य प्रत्यक्ष-अप्रत्यक्षप्रभावः मीरजापुरजनपदे स्पष्टतया दृश्यते। जनपदस्य ओडीओपी-उत्पादाः— दरी, कालीन, पीतल-उद्योगः च— राष्ट्रीय-अन्तरराष्ट्रीय-बाजारान् प्रति सुलभतया प्राप्स्यन्ति। अनेन स्थानिकशिल्पिनां तथा उद्यमिनां कृते विशालः बाजारः उपलब्धः भविष्यति।
तथैव कृषिक्षेत्रे, लघूद्योगेषु, सेवाक्षेत्रे च नूतना गतिः आगमिष्यति। निवेशः तथा औद्योगिकक्रियाः वर्धिष्यन्ते, येन युवानां कृते जीविका-स्वजीविकानाम् अवसराः उत्पत्स्यन्ते।
पर्यटनस्य प्रोत्साहनम्
उत्तमसंपर्कव्यवस्थया विंध्याचल धाम तथा अन्येषु धार्मिक-पर्यटनस्थलेषु देश-विदेशात् आगच्छतां यात्रिकाणां संख्या वर्धिष्यते इति अपेक्षा अस्ति। अनेन होटल-परिवहन-स्थानिकव्यापारादयः अपि लाभं प्राप्स्यन्ति।
आर्थिकविकासस्य नूतनइंजनम्
एतत् विमानस्थानकं प्रदेशस्य अर्थव्यवस्थायां लक्षकोटिरूप्यकाधिकं सम्भावितं योगदानं दत्वा विकासस्य नूतनइंजनरूपेण प्रतिष्ठास्यति। कार्गो तथा लॉजिस्टिक्स-सुविधाभिः निर्यातवृद्धिः भविष्यति तथा ‘लोकल् तः ग्लोबल्’ इति संकल्पना दृढा भविष्यति।
सुलभसंपर्कव्यवस्था
यमुना-एक्सप्रेसवे-समेतैः प्रमुखमार्गैः सम्बद्धत्वात् अस्य विमानस्थानकस्य प्राप्तिः अतीव सुलभा भविष्यति। प्रस्तावित-मेट्रो, बस, टैक्सी-सेवाभिः मीरजापुरं सहितं प्रदेशस्य विविधजनपदानां जनानां कृते उत्तमयात्रासुविधा उपलब्धा भविष्यति।
---------------
हिन्दुस्थान समाचार