Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, ३१ मार्चमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्रिणः योगी-आदित्यनाथस्य निर्देशानुसारं पेट्रोल-डीजल-एलपीजी-इत्येषां कृत्रिम-संकटं निवारयितुं राज्य-सर्वकारेण दृढं निरीक्षणं कृतम्। अधिकारिणां क्षेत्रेषु सक्रियतया कारणेन अधुना पेट्रोल-पम्प-इत्येतेषु सामान्यवत् ग्राहकाणाम् आगमन-गमनं दृश्यते। प्रदेशे अद्यावधि १७ सहस्राधिक-स्थानेषु ग्रहणं कृतं तथा २२४ जनानां विरुद्धं सुसंगत-धारासु प्रकरणानि पंजीकृतानि।
खाडी-देशेषु चलमाने युद्धे एलपीजी-पेट्रोल-डीजल-आपूर्तौ बाधा-सम्भावना आसीत्, किन्तु सर्वकारस्य प्रयासैः पर्याप्त-उपलब्धता सुनिश्चिता अभवत्। तथापि मध्यस्थाः कृत्रिम-संकटस्य दुष्प्रचारान् प्रसार्य लाभं प्राप्तुं प्रयत्नं कृतवन्तः। तेन कतिपय-स्थानेषु पेट्रोल-पम्प-इत्येतेषु दीर्घ-श्रेण्यः निर्मिताः। एतस्मिन् सन्दर्भे सर्वकारेण दृढं निरीक्षणम् आरब्धम्। अस्मिन् अभियाने एलपीजी-वितरकेषु ३३ प्राथमिकी-अभिलेखिताः, अन्येषु प्रकरणेषु १८९ प्राथमिकी-अभिलेख्य १७ जनाः गृहीताः, तथा २२४ जनानां विरुद्धं विधिक-कार्यवाही कृता।
राज्ये १२,८८८ पेट्रोल-पम्प संचालिताः सन्ति। वर्तमानकाले प्रदेशे प्रायः ९१ सहस्र-किलोलीटर पेट्रोल तथा १.१५ लक्ष-किलोलीटर डीजल-भण्डारः उपलब्धः अस्ति। ४,१०७ वाति-वितरकैः उपभोक्तृभ्यः बुकिङ्गानुसारं अनिलकोष-आपूर्तिः क्रियते। आपूर्ति-व्यवस्थायाः निरीक्षणार्थं खाद्यायुक्त-कार्यालये २४-होरा-नियन्त्रण-कक्षः स्थापितः तथा सर्वेषु जनपदेषु अपि नियन्त्रण-कक्षाः सक्रियाः सन्ति। सर्वकारेण जनान् प्रति आह्वानं कृतं यत् भयवशात् इन्धन-संग्रहः न क्रियताम्, पर्याप्त-उपलब्धता वर्तते तथा जमा-कृत्येषु दृढा कार्यवाही भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता