Enter your Email Address to subscribe to our newsletters

मंदिरे श्री गिरिराजजेः दुग्धाभिषेकं, वैष्णवजनं केशरियोत्तरीं धारयित्वा शोभायात्रायां सम्मिलिताः जनाः
वाराणसी,31 मार्चमासः (हि.स.)। वाराणसी-नगरस्य चौखम्भा-क्षेत्रे स्थितस्य षष्ठपीठ-श्रीगोपाल-मन्दिरस्य षष्ठपीठाधीश्वरस्य श्री मुरलीधर लालजी महाराज १२२तम-प्राकट्य-दिवसस्य अवसरॆ मङ्गलवासरे भव्य-शोभायात्रा निष्कासिता।
श्रीमुकुन्द गोपाल सेवा संस्थान-नाम्नः संस्थायाः ध्वजतले सुखपाल-आसने मुरलीधर-लाल-महाराजस्य चित्रं विराजितम्। ततः अनन्तरं वैष्णव-भक्तजनैः सुखपालः स्कन्धेषु धृतः। केसरिय-दुपट्टं धारयन्तः श्रद्धालवः शोभायात्रायां सम्मिलिताः, मार्गे मार्गे च महाराजस्य चित्रे पुष्पवर्षा कृता। सर्वत्र भक्तजनाः “महाराजश्री की जय” इति घोषं कुर्वन्तः अग्रे ययुः।
शोभायात्राया अनन्तरं प्रभोः मङ्गला-दर्शनं सम्पन्नम्। ततः पश्चात् श्री गिरीराजजी इत्यस्य दुग्धाभिषेकः श्रीवल्लभ युवक परिषद इत्यस्याः संस्थायाः पक्षतः कृतः। पालना-दर्शनानन्तरं सायंकाले आरती-दर्शनं भविष्यति। ग्वाल-समये पालना-मनोरथः अपि सम्पन्नः, तथा च श्री मुरलीधर-लाल-महाराजस्य पादुका-युगलस्य केसर-स्नानम् अपि कृतम्।
------------
हिन्दुस्थान समाचार