वरिष्ठ-आईएएस-वीर-विक्रम-यादवः डीजीसीए-इत्यस्य नूतनः महानिदेशकः
नवदिल्ली, ३१ मार्चमासः (हि.स.)। केन्द्र-सर्वकारेण भारतीय-प्रशासनिक-सेवायाः वरिष्ठ-अधिकारी वीर-विक्रम-यादवः नागरिक-उड्डयन-महानिदेशालयस्य (डीजीसीए) महानिदेशकः नियुक्तः। सः फैज-अहमद-किदवई इत्यस्य स्थानं गृह्णाति। यादवः वर्तमानकाले पर्यावरण-वन-जलवायु-प
वरिष्ठ अधिकारी वीर विक्रम यादव का फाइल फोटो


नवदिल्ली, ३१ मार्चमासः (हि.स.)। केन्द्र-सर्वकारेण भारतीय-प्रशासनिक-सेवायाः वरिष्ठ-अधिकारी वीर-विक्रम-यादवः नागरिक-उड्डयन-महानिदेशालयस्य (डीजीसीए) महानिदेशकः नियुक्तः। सः फैज-अहमद-किदवई इत्यस्य स्थानं गृह्णाति। यादवः वर्तमानकाले पर्यावरण-वन-जलवायु-परिवर्तन-मन्त्रालये अतिरिक्त-सचिवरूपेण कार्यरतः अस्ति।

मन्त्रिमण्डल-नियुक्ति-समितेः (एसीसी) आदेशानुसारं मध्यप्रदेश-कैडर-इत्यस्य १९९६-पक्ष-सम्बद्धः आईएएस-अधिकारी फैज-अहमद-किदवई कार्मिक-प्रशिक्षण-विभागे अतिरिक्त-सचिवरूपेण नियुक्तः। तस्य स्थाने वरिष्ठ-आईएएस-वीर-विक्रम-यादवः डीजीसीए-इत्यत्र महानिदेशकत्वेन दायित्वं स्वीकरिष्यति।

अधिसूचनानुसारं वीर-विक्रम-यादवस्य नियुक्तिः नागरिक-उड्डयन-मन्त्रालयस्य अधीनस्थे नागरिक-उड्डयन-महानिदेशालये महानिदेशक-रूपेण कृता। वीर-विक्रम-यादवः १९९६-वर्षस्य ओडिशा-कैडर-इत्यस्य वरिष्ठ-आईएएस-अधिकारी अस्ति, सः वर्तमानकाले पर्यावरण-वन-जलवायु-परिवर्तन-मन्त्रालये अतिरिक्त-सचिव-पदे कार्यरतः अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता