यूजेवीएनएलपरिषद् नूतनजलविद्युत्परियोजनाभ्योददात्सहमतिम्
देहरादूनम्, 31 मार्चमासः (हि.स.)। यूजेवीएन लिमिटेड इत्यस्य निदेशक मण्डलेन राज्ये नवीन जलविद्युत् परियोजनानां शीघ्रगत्यर्थम् अनेके महत्वपूर्णाः प्रस्तावाः अनुमोदिताः। मङ्गलवासरे सचिवालये मुख्यसचिवः तथा यूजेवीएनएलस्य अध्यक्षः आनन्द बर्धनस्य अध्यक्षत
सचिवालय में मुख्य सचिव एवं यूजेवीएनएल के अध्यक्ष आनंद वर्धन की अध्यक्षता में आयोजित बैठक।


देहरादूनम्, 31 मार्चमासः (हि.स.)। यूजेवीएन लिमिटेड इत्यस्य निदेशक मण्डलेन राज्ये नवीन जलविद्युत् परियोजनानां शीघ्रगत्यर्थम् अनेके महत्वपूर्णाः प्रस्तावाः अनुमोदिताः।

मङ्गलवासरे सचिवालये मुख्यसचिवः तथा यूजेवीएनएलस्य अध्यक्षः आनन्द बर्धनस्य अध्यक्षतायां निदेशक मण्डलस्य १३३ तमा गोष्ठी आयोजिता अभवत्। अस्याम् बैठकायां निगमसम्बद्धेषु विविधेषु प्रस्तावेषु विस्तारपूर्वकं विचारविमर्शः कृतः।

उपवेशने पिथौरागढ जनपदे प्रस्तावितायाः १२० मेगावाट क्षमता युक्तायाः सिरकारी भ्योल रूपसियाबगड जलविद्युत् परियोजनायाः सिविल कार्यारम्भस्य प्रस्तावः स्वीकृतः।

तत्सह देहरादूने ६०० मेगावाट क्षमता युक्तायाः इछाडी पम्प स्टोरेज परियोजनायाः निविदा प्रपत्र निर्माणार्थं सक्षमस्तरात् अनुमोदनं दातुं निर्देशाः अपि दत्ताः।

एतस्मिन् क्रमे टौंसनद्याः उपरि प्रस्तावितायाः ७२ मेगावाट क्षमता युक्तायाः त्यूणी पलासू परियोजनायाः सिविल तथा हाइड्रो मैकेनिकल कार्याणां आवंटनम् अपि अनुमोदितम्।

तथा च पबर नद्याः उपरि प्रस्तावितायाः ८१ मेगावाट क्षमता युक्तायाः आराकोट त्यूणी जलविद्युत् परियोजनायाः डीपीआर अनुमोदनार्थं निर्देशाः निर्गताः।

उपवेशने प्रमुखसचिवः ऊर्जा डॉ आर मीनाक्षी सुंदरम्, सचिव वित्त दिलीप जावलकर, स्वतंत्र निदेशकाः इन्दु कुमार पाण्डेयो, बी पी पाण्डेयः, पराग गुप्ता, प्रबन्ध निदेशक ए के सिंह, निदेशक परियोजनाः सुरेश चन्द्र बलूनी तथा अन्ये अधिकारिणः उपस्थिताः आसन्।

हिन्दुस्थान समाचार