Enter your Email Address to subscribe to our newsletters

पटना, 04 मार्चमासः (हि.स.)।
मुख्यमन्त्री नीतीश कुमारः बुधवासरे प्रातःकाले रङ्गोत्सवस्य होलीपर्वणः अवसरस्य प्रदेशवासिभ्यः शुभाशंसाः प्रेषितवान्।
नीतीश कुमारः स्वसन्देशे अवदत् — “रङ्गाणां उत्सवस्य होलीपर्वणः हार्दिकाः शुभकामनाः। होली सामाजिकसमरसतायाः प्रतीकं अस्ति। एतत् पवित्रं पर्व राज्यवासिनां जीवने नवान् आनन्दरङ्गान् आनयतु। एषः पवित्रः उत्सवः दुर्गुणेषु सद्गुणानां विजयस्य अपि प्रतीकः अस्ति। अतः होलीपर्व प्रेम्णा, भ्रातृत्वेन तथा सद्भावेन सह आचर्यताम्।”
---------------
हिन्दुस्थान समाचार