अलेक्जेंडरस्टब: भारतस्य चतुर्दिवसीय–यात्रायाम् — व्यापार–निवेश–नवाचाराः प्रमुखा कार्यसूची
नवदिल्ली, ०४ मार्चमासः (हि.स.)।फिनलैंड–देशस्य राष्ट्रपतिः अलेक्जेंडरस्टबः बुधवासरे भारतस्य चतुर्दिवसीय–यात्रायै नवदिल्लीं प्राप्तवान्। अस्याः यात्रायाः प्रमुखम् उद्देश्यं व्यापार–निवेश–महत्त्वपूर्ण–प्रौद्योगिकी नवाचारादिषु क्षेत्रेषु द्विपक्षीय–सहय
दिल्ली एयरपोर्ट पर गार्ड ऑफ ऑनर का निरिक्षण करते राष्ट्रपति अलेक्जेंडर स्टब


नवदिल्ली, ०४ मार्चमासः (हि.स.)।फिनलैंड–देशस्य राष्ट्रपतिः अलेक्जेंडरस्टबः बुधवासरे भारतस्य चतुर्दिवसीय–यात्रायै नवदिल्लीं प्राप्तवान्। अस्याः यात्रायाः प्रमुखम् उद्देश्यं व्यापार–निवेश–महत्त्वपूर्ण–प्रौद्योगिकी नवाचारादिषु क्षेत्रेषु द्विपक्षीय–सहयोगस्य सुदृढीकरणम् अस्ति।

भारतं प्रति राष्ट्रपतिः आगतवान् इति अवसरे कीर्तिवर्धनसिंहेन नवदिल्ली–विमानपत्तने हार्दिकेन स्वागतेन अभिनन्दितः। गुरुवासरे राष्ट्रपतिः स्टबः नरेन्द्रमोदी–महाभागेन सह द्विपक्षीय–वार्तां करिष्यति। ततः परं व्यापार–निवेश–प्रौद्योगिकी–नवाचारादिषु विविधेषु क्षेत्रेषु सहयोग–विस्ताराय अनेकानां सन्धि–स्मरणपत्राणां (एम्.ओ.यू.) अन्तिम–स्वीकृतिः अपेक्ष्यते। अस्यां वार्तायां पश्चिम–एशियायां प्रवर्तमानस्य संकटस्य विषये अपि प्रमुखतया चर्चा भविष्यति इति सम्भावना अस्ति।

राष्ट्रपतिः अलेक्जेंडरस्टबः गुरुवासरस्य सायं रायसीना संवाद–उद्घाटन–सत्रे मुख्यातिथिरूपेण उपस्थितः भविष्यति। तेन सह मन्त्रिणः, वरिष्ठ–अधिकारिणः, व्यवसायिनः च समाविष्टं उच्चस्तरीयं प्रतिनिधिमण्डलम् अपि भारतम् आगतम् अस्ति। राष्ट्रपतिः स्टबः द्रौपदीमुर्मू–महाभागया तथा सी.पी.राधाकृष्णन–महाभागेन च सह अपि मिलिष्यति।

दिल्ली–प्रस्थानात् पूर्वं राष्ट्रपतिः स्टबः उक्तवान् यत् “अयं प्रवास: व्यापार–निवेशादिषु क्षेत्रेषु फिनलैंड–भारतयोः सम्बन्धान् अधिकं सुदृढान् करिष्यति।”विदेशमंत्रालय–वक्ता रणधीरजायसवाल: ‘एक्स्’–माध्यमे प्रकाशिते वक्तव्ये अवदत्— “भारत–फिनलैंडदेशयोः सम्बन्धाः लोकतान्त्रिक–मूल्याधारिताः सौहार्दपूर्णाः मैत्रीपूर्णाश्च सन्ति। राष्ट्रपतिः अलेक्जेंडरस्टबस्य यात्रा भारत–फिनलैंड–सम्बन्धेभ्य: नूतनं वेगं दास्यति।”

उल्लेखनीयम् यत् राष्ट्रपतिः स्टबः शुक्रवासरे मुंबई–नगरं गमिष्यति, यत्र तेन सह अनेकैः व्यवसायिभिः मिलन–कार्यक्रमः निर्धारित: अस्ति। एषा यात्रा शनिवासरे समाप्ता भविष्यति। अस्याः यात्रायाः किञ्चित् सप्ताहेभ्य: पूर्वमेव पेटेरी ओर्पो फिनलैंड–प्रधानमन्त्री ‘ए.आइ. इम्पैक्ट समिट्’–कार्यक्रमाय दिल्लीम् आगतः आसीत्।

हिन्दुस्थान समाचार / अंशु गुप्ता