Enter your Email Address to subscribe to our newsletters

मुरादाबादम्, 04 मार्चमासः (हि.स.)।
मुरादाबादनगरे बुधवासरे दुल्हैण्डी होलीपर्वणि हिन्दूमण्डल किसरोलद्वारा चौरासीघण्टा मन्दिरात् तथा आदर्श होलीसमितेः तत्वावधानेन कानून गोयान हस्तिवाले मन्दिरात् मनोहरझाङ्कीयुक्ताः शोभायात्राः निष्कासिताः।
एतासु शोभायात्रासु राधाकृष्ण भगवान् शिव इत्यादीनां देवदेवीनां झाङ्कयः जनान् मन्त्र-मुग्धान् अकरोत्। तेषां सह गच्छन्तः वर्णयुक्तठेलकाः अपि आसन्, येभ्यः जनानाम् उपरि वर्णस्य वर्षा क्रियते स्म। ढोलवाद्येषु बैंडवाद्येषु च युवानः नृत्यन्तः दृश्यन्ते स्म।
हिन्दूमण्डल किसरोलस्य अध्यक्षः अरविन्द अग्रवाल जॉनी उक्तवान् यत् एषा शोभायात्रा गत 67 वर्षेभ्यः निरन्तरं निष्कास्यते। शोभायात्राकाले नगरपुलिसअधीक्षकः कुमार रणविजय सिंह, अपरजिलाधिकारी नगर ज्योति सिंह, सिटी मजिस्ट्रेट विनय पाण्डेय, क्षेत्राधिकारी सदर कोतवाली सुनीता दहिया च पुलिसदलसमेत उपस्थिताः आसन्।
तत्रैव नागरिकसुरक्षायाः उपनियन्त्रकः नीरज चक तथा सिविल डिफेन्सस्य वार्डनाः अपि स्वस्वकर्तव्येषु नियुक्ताः आसन्।
अस्मिन् अवसरे उत्तरप्रदेश उद्योग संयुक्त उद्योग व्यापारमण्डलस्य प्रदेशाध्यक्षः अरविन्द अग्रवाल जॉनी, महामन्त्री विपिन गुप्ता तथा वरिष्ठ अधिवक्ता अतुल सोती एडवोकेट जुलूसस्य सफलआयोजनार्थं सर्वेषां सहभागिनां प्रति कृतज्ञतां व्यक्तवन्तः।
हिन्दुस्थान समाचार