दिल्ली–विधानसभा–अध्यक्षस्य आधिकारिक–निवासे होली–मिलन–समारोहः आयोजितः
नवदिल्ली, ०४ मार्चमास: (हि.स.)।दिल्ली–विधानसभायाः अध्यक्षः विजेन्द्र: गुप्ता बुधवासरे होली–पावन–अवसरे अत्र स्वकीय-आधिकारिक–निवासे (एबी–९, तिलक–मार्ग) कार्यकर्तृभिः सह दिल्ली–नागरिकैः च सह साक्षात्कारं कृत्वा तेभ्यः होलिकापर्वण: हार्दिक–शुभाशयाः प्र
दिल्ली विधानसभा के अध्यक्ष विजेन्द्र गुप्ता


नवदिल्ली, ०४ मार्चमास: (हि.स.)।दिल्ली–विधानसभायाः अध्यक्षः विजेन्द्र: गुप्ता बुधवासरे होली–पावन–अवसरे अत्र स्वकीय-आधिकारिक–निवासे (एबी–९, तिलक–मार्ग) कार्यकर्तृभिः सह दिल्ली–नागरिकैः च सह साक्षात्कारं कृत्वा तेभ्यः होलिकापर्वण: हार्दिक–शुभाशयाः प्रेषितवान्।

अस्मिन् अवसरे सः सर्वेषां नागरिकाणां जीवने शान्ति–समृद्धि–सुखानां मङ्गल–कामनाः व्यक्तवान्। सः अवदत् यत् होलिका केवलं रङ्गोत्सवः न, अपि तु सामाजिक–समरसतायाः, पारस्परिक–सम्मानस्य, सामूहिक–सद्भावस्य च प्रतीकः अस्ति। तेनोक्तं यत् एतानि पावन–पर्वाणि समाजे परस्पर–विश्वासं सुदृढीकुर्वन्ति तथा च उन्नतस्य सर्वसमावेशिन्याः दिल्ली-निर्माणाय संकल्पं अधिकं दृढं कुर्वन्ति।

हिन्दुस्थान समाचार / Divya Ranjan