जयशंकरो यांगूने सरसोबेकमैन साहित्यिक केंद्रस्य अकरोत् उद्घाटनम्
नव दिल्ली, 04 मार्चमासः (हि.स.)।विदेशमन्त्री एस जयशंकर मंगलवासरे म्यांमारदेशस्य याङ्गूननगरे सरसोबेकमैन साहित्यिककेन्द्रभवनस्य उद्घाटनं कृतवान्। एषा परियोजना भारतसरकारस्य साहाय्येन निर्मिता अस्ति। सः उक्तवान् यत् एतत् केन्द्रं भारतम्यांमारयोः घनिष्ठ
एस जयशंकर


नव दिल्ली, 04 मार्चमासः (हि.स.)।विदेशमन्त्री एस जयशंकर मंगलवासरे म्यांमारदेशस्य याङ्गूननगरे सरसोबेकमैन साहित्यिककेन्द्रभवनस्य उद्घाटनं कृतवान्। एषा परियोजना भारतसरकारस्य साहाय्येन निर्मिता अस्ति। सः उक्तवान् यत् एतत् केन्द्रं भारतम्यांमारयोः घनिष्ठसम्बन्धानां प्रतीकम् अस्ति तथा म्यांमारस्य साहित्यिकधरोहरस्य संरक्षणं सृजनात्मकलेखनस्य प्रोत्साहनं च करिष्यति।

जयशंकर उक्तवान् यत् भारतम्यांमारयोः सम्बन्धाः शताब्दिपुरातनाः सन्ति। अध्यात्म भाषा साहित्यं भौगोलिकसमीपता च उभौ देशौ संयोजयन्ति। बौद्धधर्मस्य पालिभाषायाः च माध्यमेन साझा बौद्धिकधरोहरस्य आदानप्रदानम् अभवत्। रामायण भगवद्गीता तिरुक्कुरल इत्यादयः भारतीयग्रन्थाः बर्मीभाषानुवादरूपेण म्यांमारदेशे लोकप्रियाः अभवन्।

सः उक्तवान् यत् एतत् केन्द्रं शास्त्रीयलोकसाहित्ययोः संरक्षणं अनुवादं अभिलेखीकरणं अनुसन्धानक्रियाः च प्रोत्साहयिष्यति। अनेन नवपीढी स्वस्य सांस्कृतिकनिक्षेपेण सह सम्बद्धा भवितुं अवसरं प्राप्स्यति।

विदेशमन्त्री उक्तवान् यत् म्यांमार भारतस्य नेबरहुड फर्स्ट एक्ट ईस्ट महासागरसम्बद्धाः इण्डो पॅसिफिक प्राथमिकताः च एतासां संगमे स्थितः अस्ति। उभयोः देशयोः मध्ये राजनैतिक व्यापारिक सुरक्षा सांस्कृतिकसहयोगः निरन्तरं वर्धते।

सः सम्पर्कपरियोजनानां उल्लेखं कृत्वा कलादान मल्टीमॉडल ट्रांजिट ट्रांसपोर्ट परियोजना भारतम्यांमारथाईलैंड त्रिपक्षीय राजमार्गः च प्रमुखपहलरूपेण निर्दिष्टवान्। सः उक्तवान् यत् एतासां परियोजनानां समयबद्धसमापनात् क्षेत्रीयविकासः जनजनसम्पर्कः च प्रोत्साहितः भविष्यति।

जयशंकर उक्तवान् यत् आपदासमये भारतः म्यांमारदेशस्य साहाय्यं कृतवान्। मार्च 2025 मासे माण्डलेनगरे जातस्य भूकम्पस्य अनन्तरं ऑपरेशन ब्रह्मा नाम्ना भारतः प्रायः सहस्रटनपरिमितां राहतसामग्रीं प्रेषितवान् 80 सदस्यीयं अन्वेषणउद्धारदलम् अपि प्रेषितवान् तथा क्षेत्रीयचिकित्सालयं स्थापितवान् यस्मिन् 2500 अधिकाः रोगिणः उपचारं प्राप्तवन्तः।

सः उक्तवान् यत् भारतः म्यांमारस्य शान्तिप्रक्रियायाः समर्थनं करोति तथा संघवाद संवैधानिकव्यवस्थायाः स्वानुभवान् अपि साझा कृतवान्। भारतः समावेशी म्यांमारनेतृत्वयुक्तां शान्तिप्रक्रियां समर्थयति।

उल्लेखनीयम् यत् सरसोबेकमैन म्यांमारदेशस्य एकं प्रमुखं साहित्यिकसंस्थानम् अस्ति यस्य उद्देश्यं देशस्य साहित्यिकधरोहरस्य संरक्षणं विकासं च कर्तुम् अस्ति।

--------------

हिन्दुस्थान समाचार