मध्य प्रदेशे उत्साहेन समाचरिता होल्याः उत्सवः, विदेशी-अथितिः अपि फागुनस्य रंगे रंजितः
- कृषिमुख्यमंत्री पुष्पैः गुलालेन होली समाचरिता, केन्द्रीय मंत्री शिवराजो गीतवान् फाल्गुनम् भोपालम्, 04 मार्चमासः (हि.स.)। मध्यप्रदेशे बुधवासरे होली-उत्सवः हर्षोल्लासेन सह आचरितः। भोपालनगरात् आरभ्य धार्मिकनगरी उज्जयिनी, इन्दौर, ग्वालियर इत्यन्ये
केन्द्रीय मंत्री शिवराज सिह चौहान के निवास पर होली मिलन


केन्द्रीय मंत्री शिवराज सिह चौहान के निवास पर होली मिलन


अपने निवास पर होली खेलते हुए मुख्यमंत्री


अपने निवास पर होली खेलते हुए मुख्यमंत्री


खजुराहो में विदेशी मेहमान होली खेलते हुए


- कृषिमुख्यमंत्री पुष्पैः गुलालेन होली समाचरिता, केन्द्रीय मंत्री शिवराजो गीतवान् फाल्गुनम्

भोपालम्, 04 मार्चमासः (हि.स.)।

मध्यप्रदेशे बुधवासरे होली-उत्सवः हर्षोल्लासेन सह आचरितः। भोपालनगरात् आरभ्य धार्मिकनगरी उज्जयिनी, इन्दौर, ग्वालियर इत्यन्येषु नगरेषु वर्णगुलालस्य लोकपरम्पराणां च महान् उत्साहः दृष्टः। सम्पूर्णः प्रदेशः फाल्गुनमासस्य वर्णैः सराबोर इव दृष्टः। ओरछा तथा खजुराहो स्थलेषु विदेशीयाः अतिथयः अपि उत्साहेन होलीम् अक्रीडन्।

राजधानी भोपालनगरे मुख्यमन्त्री डॉ मोहनयादवः स्वनिवासे नागरिकैः सह पुष्पैः गुलालेन च होलीम् अक्रीडत्। तत्रैव केन्द्रीयमन्त्री शिवराजसिंहचौहानः फागगीतं अगायत्। स्वास्थ्य मन्त्री राजेन्द्रशुक्लः रीवानगरे टिमकी ढोलकयोः तालपर फागगीतं गायन् पारम्परिकरीत्या होलीम् आचरितवान्। उज्जयिन्यां सन्तः पुष्पैः गुलालेन च होलीम् अक्रीडन्। तत्रैव सांसद् अनिलफिरोजिया “भीगे चुनर वाली” गीतस्य तालपर नृत्यम् अकरोत्। रतलामनगरे महापौरः प्रह्लादपटेलः “लैला ओ लैला” गीतस्य तालपर नृत्यम् अकरोत्। सागरनगरे विधायकः शैलेन्द्रजैनः स्वपत्नीसमेतः “चल छैया छैया” गीतस्य तालपर नृत्यं कृत्वा कार्यकर्तृषु उत्साहं जनितवान्।

भोपालनगरे लिंक रोडस्थे “मामा” इति प्रसिद्धे गृहे केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानेन होलीमिलनसमारोहः आयोजितः। अस्मिन् समारोहेषु सः स्वपत्नी साधनासिंहचौहानया तथा पुत्राभ्यां पुत्रवधूभ्यां सह आगतानां अतिथीनां गुलालं दत्वा स्नेहपूर्वकं स्वागतं कृतवान्।

स्वविशिष्टशैलीनां कारणेन प्रसिद्धः शिवराजसिंहचौहानः हस्ते माइक्रोफोनं गृहीत्वा होलीसम्बद्धानि फागगीतानि गुनगुनयामास। यदा सः “आज ब्रज में होली रे रसिया” इति गीतं अगायत् तदा तत्र उपस्थिताः जनाः अपि तेन सह आनन्देन नृत्यन्तः भजनं गायन्तः च दृश्यन्ते स्म। मञ्चात् गीतं गायमानस्य शिवराजसिंहस्य अधः युवजनानां समूहः तस्य गीतानां तालपर नृत्यति स्म। अस्मिन् अवसरः युवाः शिवराजस्य पुत्रं कार्तिकेयसिंहचौहानं कन्धेषु उत्थाप्य नृत्यं कृतवन्तः।

शिवराजसिंहचौहानः उक्तवान् यत् होलीपर्वणि वयं आनन्देन उत्साहेन च निमग्नाः स्मः। होली प्रेमानन्दस्य वर्णानां च उत्सवः अस्ति। अयं उत्सवः सर्वान् गिलेशिकवान् विस्मृत्य परस्परं आलिङ्गितुं प्रेरयति। यदि कस्यचित् मनसि क्लेशः अस्ति तर्हि तं विस्मृत्य प्रेम्णा परस्परं मिलित्वा होलीम् आचरितव्या इति सः अवदत्।

सः ईरान इजराइलयोः मध्ये चलमानानां आक्रमणानां विषये अपि उक्तवान् यत् विश्वस्य बमबारूदवृष्टेः आवश्यकता नास्ति, अपि तु वर्णानां आनन्दस्य च वर्षायाः आवश्यकता अस्ति। युद्धस्य अग्नौ मानवता दह्यते, परन्तु वर्णोत्सवः प्रेमभ्रातृत्वयोः संदेशं ददाति। सम्पूर्णः विश्वः वैरभावं विस्मृत्य शान्तेः सद्भावस्य च मार्गं स्वीकुर्यात् इति तेन उक्तम्।

खजुराहो नाम प्रसिद्धे पर्यटनस्थले विदेशीयपर्यटकाः अपि होलीउत्सवे उत्साहेन सम्मिलिताः। वेस्टर्नग्रुप ऑफ मोनुमेंट्स इत्यस्य मुख्यद्वारस्य समीपे प्रभाते एव वर्णोत्सवः आरब्धः। विदेशीयाः पर्यटकाः स्थानीयजनैः सह गुलालं क्षिपन्तः परस्परं वर्णं लेपयन्तः भारतीयपरम्परायाः अस्मिन् उत्सवे पूर्णतया निमग्नाः दृश्यन्ते स्म। ते केवलं होलीम् अक्रीडन् न, किन्तु बॉलिवुडगीतानां तालपर नृत्यम् अपि अकुर्वन्। ढोलवाद्यस्य डीजेसङ्गीतस्य च ध्वनौ ते जनैः सह उत्सवं अयोजयन्।

निवाडीजनपदस्य ओरछा नगरे विदेशीयाः अतिथयः विशेषतः इटलीदेशात् आगताः जनाः स्थानीयजनैः सह होलीम् अक्रीडन्। पारम्परिकसङ्गीतस्य ढोलवाद्यस्य च तालपर ते वर्णगुलालेन सराबोराः सन्तः उत्सवस्य आनन्दं अनुभवन्तः दृश्यन्ते स्म।

जबलपुरे लम्हेटाघाटस्थिते इस्कॉनमन्दिरे ब्रजशैलीया होली आचरिता। ग्वालियरनगरे महाराजाबाडास्थिते विक्टोरियामार्केटस्य समीपे पारम्परिकः मूर्खसम्मेलनः अपि आयोजितः। इन्दौरनगरे महाहोटेलात् आरभ्य केन्द्रीयकारागारपर्यन्तं होलीउत्सवस्य उल्लासः दृष्टः। डिण्डोरी जनपदे कलेक्टर अंजूपवनभदौरियायाः निवासे होलीमिलनसमारोहः आयोजितः। तत्र काँग्रेसपक्षस्य विधायकः ओंकारसिंहमरकाम ढोलकं वादयन् फागगीतं अगायत्।

झाबुआ जनपदे होलीपर्वः विशिष्टपरम्परया सह आचरितः। रायपुरिया क्षेत्रे प्राचीनपरम्परानुसारं मन्नत् पूर्णे सति श्रद्धालुः “गल” इति यन्त्रे उल्टं लम्बितः घूर्णितः। अयं अनुष्ठानः स्थानीयविश्वासेन सम्बद्धः अस्ति। अस्य दर्शनार्थं बहवः ग्रामवासिनः एकत्र समागताः।

उज्जयिन्यां आध्यात्मिकपारम्परिकोल्लासेन होलीपर्वः आचरितः। विभिन्नेषु अखाडेषु आश्रमेषु च सन्तः पुष्पगुलालैः होलीम् अक्रीडन्। भजनकीर्तनानां ढोलमञ्जीराणां च ध्वनौ परस्परं वर्णं लेपयन्तः शुभाशंसाः अददन्। अस्मिन् अवसरः सांसद् अनिलफिरोजिया “भीगे चुनर वाली” गीतस्य तालपर नृत्यम् अकरोत्।

रतलामनगरे महापौरः प्रह्लादपटेलः अलकापुरीचौराहे होलीमिलनसमारोहं आयोजितवान्। बहवः नगरवासिनः युवानः च तेन सह नृत्ये सम्मिलिताः। सः “लैला ओ लैला” गीतस्य तालपर नृत्यम् अकरोत्।

इन्दौरस्य केन्द्रीयकारागारे अपि होलीउत्सवः सौहार्देन सह आचरितः। कारागारप्रशासनस्य अनुमत्याः निरीक्षणस्य च अन्तर्गतं कैद्याः परस्परं गुलालं लेपयित्वा उत्सवस्य आनन्दं विभजितवन्तः।

पूर्वमुख्यमन्त्री दिग्विजयसिंहः अपि पारम्परिकरूपेण वर्णगुलालं लेपयन् समर्थकैः सह होलीम् आचरितवान् तथा भ्रातृत्वस्य सद्भावस्य च संदेशं दत्तवान्।

रीवानगरे स्वास्थ्य मन्त्री राजेन्द्रशुक्लः टिमकी ढोलकयोः तालपर फागगीतं गायन् जनैः सह होलीउत्सवम् आनन्देन आचरितवान्।

केन्द्रीयमन्त्री ज्योतिरादित्यसिन्धिया देशवासिभ्यः होलीपर्वणः हार्दिकशुभाशंसाः अदात्। सः उक्तवान् यत् होली-उत्सवः परस्परप्रेमभ्रातृत्वयोः सामाजिकसमरसतायाः च प्रतीकः अस्ति। अयं उत्सवः अस्मान् भेदभावं विस्मृत्य परस्परं सह आनन्दं विभजितुं प्रेरयति। वर्णानां पावनः अयं उत्सवः सर्वेषां जीवनं सुखसमृद्ध्या सकारात्मकऊर्जसा च पूरयतु। सः अपि जनान् सुरक्षिते सौहार्दपूर्णे वातावरणे होलीम् आचरितुं प्रार्थितवान् तथा अवदत् यत् उत्सवानां वास्तविकभावना तदा एव सार्थका भवति यदा समाजे एकता सद्भावः च दृढौ भवतः।

---------------

हिन्दुस्थान समाचार