Enter your Email Address to subscribe to our newsletters

जयपुरम्, 04 मार्चमासः (हि.स.)।
राजस्थान खान एवं भूविज्ञान विभागेन वित्तीयवर्षे 2025 26 उल्लेखनीया उपलब्धिः प्राप्ता। फरवरी मासपर्यन्तं 12 प्रतिशत विकासदरेण सह 8888 कोटि 80 लक्ष रूप्यकाणां अभिलेखीयं राजस्वसंग्रहणं कृतम्। एषा राशि गतवित्तीयवर्षस्य फरवरी मासपर्यन्तं कृतात् संग्रहणात् 952 कोटि रूप्यकाधिकम् अस्ति।
बुधवासरे खनिज भवन इत्यत्र आयोजितायां समीक्षासभायां प्रमुखसचिवः खान एवं भूविज्ञान टी रविकान्त संयुक्तसचिवः अरविन्द सारस्वत निदेशकः माइन्स महावीर प्रसाद मीणा तथा अन्यैः वरिष्ठाधिकारिभिः सह राजस्वसंग्रहणस्य तथा आगामीरणनीत्याः विषये विस्तृता चर्चा कृता।
प्रमुखसचिवेन उक्तं यत् फरवरी मासे विभागेन 1060 कोटि रूप्यकाणां राजस्वसंग्रहणं कृत्वा नूतनं कीर्तिमानं स्थापितम्। विभागस्य इतिहासे फरवरी मासस्य एतत् अद्यावधि सर्वाधिकं संग्रहणम् अस्ति। निर्धारितस्य एकसहस्र कोटि रूप्यकाणां लक्ष्यस्य अतिक्रमणात् तेन विभागीयाधिकारिणां प्रशंसा कृता। सभायां मार्च मासस्य कृते 1500 कोटि रूप्यकाधिकस्य राजस्वसंग्रहणस्य लक्ष्यं निर्धारितम्। क्षेत्रस्तरे विशेषरणनीतिं निर्माय अवशिष्टराजस्वस्य तथा संभावितराजस्वस्य वसूल्यां विशेषं ध्यानं दातुम् आदेशाः दत्ताः। सह एव राजस्वं घोषणानां समयबद्धक्रियान्वयनार्थं कार्ययोजना निर्मातुं तथा अप्रैल मासात् खनिज ब्लॉकानां प्लॉटानां च नीलामस्य पूर्णतया सिद्धतां कर्तुं निर्देशः दत्तः।
संयुक्तसचिवेन अरविन्द सारस्वतेन मार्च मासे सर्वाणि कार्यालयानि अवकाशदिनेषु अपि उद्घाटितानि स्थापयितुं निर्देशाः निर्गताः येन राजस्वलक्ष्यस्य प्राप्तिः सुनिश्चिताभवेत्। निदेशकः माइन्स महावीर प्रसाद मीणा अवदत् यत् फरवरी मासे अजमेर जोधपुर बीकानेर उदयपुर भीलवाड़ा तथा राजसमंद जिलेषु निर्धारितलक्ष्यात् अधिकं राजस्वं संगृहीतम्। तेन विश्वासः व्यक्तः यत् मार्चमासस्य लक्ष्यं अपि समये एव प्राप्तं भविष्यति।
समीक्षासभायां लंबितानां विधानसभा प्रश्नानां समये उत्तरप्रेषणं कर्तुं खनिज प्लॉटानां ब्लॉकानां च निर्माणे शीघ्रता आनयितुं बजट घोषणानां क्रियान्वितेः विस्तृतकार्ययोजनां प्रस्तोतुं तथा संपर्क पटलस्य प्रकरणानां त्वरितनिस्तारणं कर्तुं अपि निर्देशाः दत्ताः।
अस्यां समीक्षासभायां विभागस्य अतिरिक्तनिदेशकाः अधीक्षण भूवैज्ञानिकाः तथा अन्ये वरिष्ठाधिकारिणः अपि सहभागिनो भूत्वा स्वस्वक्षेत्रस्य प्रगतिवृत्तान्तं प्रस्तुतवन्तः।
---------------
हिन्दुस्थान समाचार