Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 04 मार्चमासः (हि.स)।
पश्चिमएशियादेशे वर्धमानं संकटं दृष्ट्वा विदेशमन्त्रालयेन एमईए तत्र निवसतां प्रभावितानां भारतीयनागरिकाणां साहाय्यार्थं नियन्त्रणकक्षः स्थापितः।
विदेशमन्त्रालयस्य आधिकारिकप्रवक्ता रणधीर जायसवाल बुधवासरे उक्तवान् यत् पश्चिमएशियायां वर्धमानसंकटं दृष्ट्वा विदेशमन्त्रालयेन एमईए विशेषः नियन्त्रणकक्षः निर्मितः। अस्य उद्देश्यं तत्र निवसतां प्रभावितजनानां साहाय्यं कर्तुम् अस्ति। मन्त्रालयेन उक्तं यत् पश्चिमएशियायां प्रायः एककोटिः भारतीयाः निवसन्ति तथा तेषां सुरक्षा कल्याणं च नूतनदिल्लीसरकारस्य सर्वोच्चप्राथमिकता अस्ति। रणधीर जायसवाल उक्तवान् यत् भारतसरकारेण सहायतार्थं हेल्पलाइनसंख्याः अपि प्रकाशिताः।
रणधीर जायसवाल पुनः उक्तवान् यत् पश्चिमएशिया खाडीक्षेत्रयोः वर्तमानस्थितिं दृष्ट्वा विदेशमन्त्रालये विशेषः नियन्त्रणकक्षः स्थापितः अस्ति। अस्मात् नियन्त्रणकक्षात् जनाः प्रातः नववादनात् रात्रौ नववादनपर्यन्तं एतेषु दूरभाषसंख्यासु सम्पर्कं कर्तुं शक्नुवन्ति। तेषां टोलफ्रीसंख्या एषा अस्ति 1800118797 तथा अन्याः दूरभाषसंख्याः +91 11 2301 2113, +91 11 2301 4104, +91 11 2301 7905 इति।
---------------
हिन्दुस्थान समाचार