Enter your Email Address to subscribe to our newsletters

पलवलनगरम्, ०४ मार्चमासः (हि.स.) — ब्रज–क्षेत्रस्य अंशत्वात् पलवल–जनपदे होली–पर्व विशेष–उत्साहेन पारम्परिक–रीतिभि: सह आचर्यते। भगवत: श्रीकृष्णस्य लीलाभिः सम्बद्धे ब्रज–क्षेत्रे होली–पर्वणः धार्मिकं सांस्कृतिकं च महत्त्वं शताब्द्यः परम्परया प्रचलितम् अस्ति। अस्याः एव परम्परायाः झलका पलवल–जनपदे अपि दृश्यते, यत्र होली केवलं रङ्गाणां पर्व न भवति, अपि तु आस्था–भक्ति–सामाजिक–मेलनस्य प्रतीकरूपेण विराजते।
अस्मिन् विषये आचार्यः वासुदेवश्रीकृष्ण-महाराज: बुधवासरे अवदत् यत् पलवले होली–पर्वणः महत्त्वं अधिकं वर्धते, यतः पलवलं ब्रजस्य प्रसिद्धायां चतुरशीतिः–कोश–परिक्रमायां अन्तर्भूतम् अस्ति। ब्रज–क्षेत्रस्य एषा परिक्रमा धार्मिक–दृष्ट्या विशेष–महत्त्वपूर्णा मन्यते, तस्याः अन्तर्गत–प्रदेशेषु च होली–पर्व महान् हर्षोल्लासेन भक्तिभावेन च आचर्यते। तेन उक्तं यत् ब्रज–क्षेत्रे होलिका केवलं एकदिवसीयं पर्व न भवति, अपि तु फाल्गुन–मासस्य आरम्भात् एव होली–उत्सवस्य प्रारम्भः भवति। देवालयेषु, चौपालेषु, ग्रामेषु च फाग–होली–सम्बद्धानि पारम्परिक–गीतानि गायन्ते। ढोलक–मञ्जीरा–झाञ्झ–वाद्यनादेषु श्रद्धालवः ग्रामवासिनश्च मिलित्वा ब्रजस्य फाग–गीतानि गायन्ति, येन सम्पूर्णं वातावरणं भक्तिमयं भवति।
पलवल–परिसरेषु च होली–दिने प्रातःकालात् एव जनाः परस्परं गृहाणि गत्वा गुलालं लिम्पन्ति, होलिका–शुभाशया: च ददति। ज्येष्ठानां आशीर्वादः गृहीतः भवति, लघवः महान्तश्च सर्वे मिलित्वा प्रेम्णा भ्रातृत्वेन च एतत् पर्व आचरन्ति। अनेकेषु स्थलेषु होली–मिलन–समारोहाः अपि आयोज्यन्ते, यत्र जनाः पारम्परिक–गीत–सङ्गीतैः सह होली–उत्सवस्य आनन्दं लभन्ते।
ब्रज–संस्कृतेः प्रभावात् पलवले होली–उत्सवः रङ्गैः सह भक्ति–परम्परायाः अपि प्रतीकः भवति। अनेनैव कारणेन प्रतिवर्षं अत्र होलिका–पर्व विशेष–उल्लासेन सांस्कृतिक–रङ्गैश्च सह आचर्यते, यत् ब्रजस्य समृद्धां परम्परां धार्मिकं महत्त्वं च स्पष्टतया प्रदर्शयति।
हिन्दुस्थान समाचार / अंशु गुप्ता