Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 04 मार्चमासः (हि.स.)।
रङ्गाणां पावनः उत्सवः होली अद्य सम्पूर्णे देशे हर्षोल्लासेन सह उत्साहपूर्वकं आचर्यते। अस्मिन् अवसरे राष्ट्रपतिः द्रौपदी मुर्मु, उपराष्ट्रपतिः सीपी राधाकृष्णन तथा प्रधानमन्त्री नरेन्द्र मोदी इत्यादयः देशस्य विभिन्नाः राजनैतिक नेतारः देशवासिभ्यः शुभाशंसाः प्रेषितवन्तः तथा परस्परभ्रातृत्वस्य ‘विकसित भारत’ इति संकल्पस्य च सन्देशं दत्तवन्तः।
राष्ट्रपतिः द्रौपदी मुर्मु बुधवासरे एक्स माध्यमे स्वसन्देशे उक्तवती यत् — “रङ्गोत्सवः जनानां जीवने प्रेम्णः आशायाः च संचारं करोति तथा परस्परैकतां भ्रातृत्वं च दृढं करोति। मम कामना अस्ति यत् वयं सर्वे मिलित्वा विकसितराष्ट्रनिर्माणे योगदानं ददाम।”
उपराष्ट्रपतिः सीपी राधाकृष्णन होली पर्वं सद्गुणस्य दुर्गुणे विजयस्य प्रतीकम् इति उक्त्वा अवदत् यत् अयं उत्सवः अस्माकं सभ्यतायाः जीवंतभावनां दर्शयति। तेन सर्वेभ्यः समावेशी, शान्तिपूर्ण तथा विकसितभारतस्य दिशि कार्यं कर्तुं आह्वानं कृतम्।
लोकसभाध्यक्षः ओम बिरला होली उत्सवं सकारात्मकचिन्तनस्य नूतनारम्भस्य च प्रतीकं इति अवदत्। तेन अपील कृतम् यत् अस्य उत्सवस्य उमङ्गः तेषामपि जनानां पर्यन्तं प्राप्नुयात् ये आवश्यकता अनुभवन्ति।
प्रधानमन्त्री नरेन्द्र मोदी होली उत्सवस्य महत्त्वं प्रतिपादयन् अवदत् यत् होली पर्वः समग्रे वातावरणे नूतनां ऊर्जां पूरयति। सर्वत्र प्रसृताः आनन्दस्य रङ्गाः सर्वान् उल्लासेन आनन्देन च परिपूर्णान् कुर्वन्ति।
केन्द्रीयगृहमन्त्री अमित शाहः कामनां कृतवान् यत् रङ्गाणां अयं उत्सवः सर्वेषां जीवने उन्नतिं समृद्धिं सौभाग्यं च आनयेत्।
केन्द्रीयसड़कपरिवहनमन्त्री नितिन गडकरी नकारात्मकताया दहनस्य सन्देशं दत्त्वा अवदत् यत् अयं उत्सवः द्वेषं नाशयित्वा जीवने सुखं शान्तिं च आनयति।
कांग्रेस दलस्य राष्ट्रियाध्यक्षः मल्लिकार्जुन खड़गे होली उत्सवं भारतीयसंस्कृतेः आत्मा इति उक्त्वा अवदत् यत् अयं उत्सवः अस्माकं बहुसांस्कृतिकसमाजस्य विविधतायां एकतां भ्रातृत्वपरम्परां च उत्सवेन प्रकटयति, या शताब्द्यः पर्यन्तं अस्माकं परिचयः आसीत्।
केन्द्रीयपर्यटनसंस्कृतिमन्त्री गजेन्द्रसिंह शेखावतः अपि एतत् ‘इन्द्रधनुषीयसंस्कृतेः’ सौहार्दपूर्णं उत्सवम् इति उक्त्वा देशवासिभ्यः सुखसमृद्धेः शुभकामनाः व्यक्तवान्।
---------------
हिन्दुस्थान समाचार