राज्यसभाया: अभ्यर्थिनी लक्ष्मी–वर्मा पञ्चमे दिने नामाङ्कन–पत्रं समर्पयिष्यति
रायपुरनगरम्, ०४ मार्चमास: (हि.स.)। छत्तीसगढ–राज्ये भारतीयजनतापक्षेण घोषिता राज्यसभाया: अभ्यर्थिनी लक्ष्मी वर्मा अग्रिमे गुरुवासरे (०५ मार्चमासे) स्वकीयम् नामाङ्कन–पत्रं समर्पयिष्यति। तत्रैव चर्चा वर्तते यत् पूर्व–विधायकः तथा प्रदेश–महामन्त्री नवीनम
राज्यसभा उम्मीदवार लक्ष्मी वर्मा


रायपुरनगरम्, ०४ मार्चमास: (हि.स.)। छत्तीसगढ–राज्ये भारतीयजनतापक्षेण घोषिता राज्यसभाया: अभ्यर्थिनी लक्ष्मी वर्मा अग्रिमे गुरुवासरे (०५ मार्चमासे) स्वकीयम् नामाङ्कन–पत्रं समर्पयिष्यति। तत्रैव चर्चा वर्तते यत् पूर्व–विधायकः तथा प्रदेश–महामन्त्री नवीनमारकंडेय: अपि नामाङ्कन–पत्रं क्रयीकृतवान् अस्ति, सः च डमी–अभ्यर्थीत्वेन नामाङ्कनं समर्पयितुं शक्नोति।

उल्लेखनीयं यत् राज्यसभा–निर्वाचनस्य नामाङ्कन–समर्पणस्य अन्तिम–तिथि: ०५ मार्चमासः अस्ति। विधानसभाया: सचिवालयस्य सूचनानुसारं नामाङ्कन–पत्राणि प्रातः ११ वादनात् अपराह्णे ३ वादनपर्यन्तं समर्पयितुं शक्यन्ते। लक्ष्मी–वर्मया नामाङ्कन–पत्रं पूर्वमेव क्रीतम् अस्ति। नामाङ्कन–पत्र–क्रयणाय संसदीय–कार्य–मन्त्री केदारकश्यप: विधानसभां प्राप्तवान्।

विधानसभायां सङ्ख्याबलस्य आधारेण इदं कथ्यते यत् भारतीयजनतापक्षाय भारतीयराष्ट्रीयकांग्रेस–पक्षाय च एकैकमासनं प्राप्येत इति सम्भावना वर्तते। तथापि भाजपापक्षस्य दृष्टिः कांग्रेस–अभ्यर्थी-इत्यत्र एव निहिता अस्ति। कांग्रेस–पक्षेण अद्यावधि स्वकीयः अभ्यर्थी आधिकारिकतया न घोषितः। सम्भाव्यते यत् कांग्रेसः अद्य रात्रौ विलम्बेन अथवा श्वः प्रातः स्वकीयस्य अभ्यर्थिन: नाम घोषयिष्यति।

अस्य विषये नेता–प्रतिपक्षः डॉ.चरणदासमहंत: सर्वान् विधायकान् प्रातः १० वादने विधानसभां प्राप्तुं निर्देशं दत्तवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता