Enter your Email Address to subscribe to our newsletters

रायपुरनगरम्, ०४ मार्चमासः (हि.स.)। भारतीयजनता–पक्षात् राज्यसभा–सांसद–अभ्यर्थिनी लक्ष्मी वर्मा अद्य बुधवासरे मुख्यमन्त्री–निवासं गत्वा राज्यस्य मुख्यमन्त्रिणा विष्णुदेवसायेन सह सौजन्य–साक्षात्कारं कृतवती तथा तस्मै होली–पर्वणः शुभाशयाः अर्पितवती।
अस्मिन् अवसरे मुख्यमन्त्रिणा विष्णुदेवसायेनापि राज्यसभा–सांसद–अभ्यर्थिन्यै लक्ष्मीवर्मायै होली–पर्वणः शुभाशयाः प्रदत्ताः, अपि च छत्तीसगढ–राज्यात् राज्यसभायै नामाङ्कनस्य अभिनन्दनं कृतम्। तेन उक्तं यत्— अस्माकं पूर्णः विश्वासः अस्ति यत् सा उच्चसदने छत्तीसगढस्य जनभावनाः, प्रदेशस्य हितानि तथा विकाससम्बद्धान् सर्वान् महत्त्वपूर्णान् विषयान् दृढतया, स्पष्टतया तथा संवेदनशीलतया सह उत्थापयिष्यति।
अस्मिन् सौजन्य–साक्षात्कारे वन–मन्त्री केदाकश्यप:, महिला–बाल–विकास–मन्त्री लक्ष्मी राजवाड़े, सुशांत: शुक्ला, राम-गर्ग: इत्येतै: सह अन्येऽपि उपस्थिताः आसन्। सर्वैः होली–वर्णैः सह आत्मीयता–सौहार्दयोः सन्देशः सहभाग: कृतः।
हिन्दुस्थान समाचार / अंशु गुप्ता