राज्यसभा-निर्वाचनम् - भाजपापक्षेण अष्टावले–तावडे-समेत चतुर्णाम् अभ्यर्थिनां नामानि घोषितानि
नवदिल्ली, ०४ मार्चमास: (हि.स.)।भारतीयजनतापक्षेण महाराष्ट्रं समेत्य दश-राज्येषु विद्यमानानां ३७ राज्यसभा-स्थानानां निर्वाचनार्थं चतुर्णाम् अभ्यर्थिनां द्वितीया सूची बुधवासरे प्रकाशिता। अस्याम् सूच्यां सामाजिक-न्याय-अधिकारिता-राज्यमन्त्री तथा आरपीआई
आर पी आई के अध्यक्ष रामदास आठवले और भाजपा के महासचिव विनोद तावड़े


नवदिल्ली, ०४ मार्चमास: (हि.स.)।भारतीयजनतापक्षेण महाराष्ट्रं समेत्य दश-राज्येषु विद्यमानानां ३७ राज्यसभा-स्थानानां निर्वाचनार्थं चतुर्णाम् अभ्यर्थिनां द्वितीया सूची बुधवासरे प्रकाशिता। अस्याम् सूच्यां सामाजिक-न्याय-अधिकारिता-राज्यमन्त्री तथा आरपीआई (ए)-अध्यक्षः रामदास: आठवले तथा भाजपापक्षस्य महासचिवः विनोद: तावड़े—एते महाराष्ट्रतः अभ्यर्थित्वेन समाविष्टाः सन्ति।

भाजपाया: विज्ञप्तेः अनुसारं केन्द्रीय-निर्वाचन-समित्या महाराष्ट्रतः राज्यसभा-निर्वाचनार्थं चत्वारि नामानि अनुमोदितानि। एतेषु रामदास: आठवले, विनोद: तावड़े, माया चिंतामण ईवनाते तथा रामराव: वडकुले इति नामानि सन्ति। महाराष्ट्रतः एकः अनुसूचित-जाति-सम्बद्धः, एकः आदिवासी, एकः मराठा तथा एकः अन्य-पृष्ठ-वर्ग-सम्बद्धः अभ्यर्थी भाजपया चयनितः।

भाजपापक्षेण स्वकोट्यात् पुनः रामदास: आठवले राज्यसभां प्रेषयितुं निर्णयः कृतः। अस्मात् निर्णयात् पूर्वं मङ्गलवासरे मुम्बई-नगरे आठवलेन देवेंद्रफडणवीस-मुख्यमन्त्रिणा सह साक्षात्कार: कृतः। सूत्राणामनुसारं महाराष्ट्रे सम्प्रतिकाले सम्पन्नेषु नगर-निगम-निर्वाचनेषु आरपीआई(ए)-दलेन भाजपायै समर्थनस्य प्रतिफले एकस्य विधानपरिषद्-स्थानस्य तथा द्वयोः राज्यसभा-स्थानयोः याचना कृता।

अस्याः पूर्वदिने मङ्गलवासरे भाजपापक्षेण राज्यसभा-निर्वाचनार्थं नव-अभ्यर्थिनां प्रथमा सूची प्रकाशिता आसीत्, यस्याम् नितिननवीन: तथा शिवेशकुमार:— एतौ बिहारतः अभ्यर्थित्वेन निर्दिष्टौ। अन्येषु असमात् तेराश: गोवाला तथा जोगेन मोहन:, छत्तीसगढात् लक्ष्मी वर्मा, हरियाणात् संजय: भाटिया, ओडिशात् मनमोहनसामल: एवं सुजीतकुमार:, पश्चिम-बङ्गालात् राहुलसिन्हा— एते अभ्यर्थिनः निर्दिष्टाः।

राज्यसभा-निर्वाचनार्थं नामाङ्कनस्य अन्तिम-तिथिः ५ मार्चमास: अस्ति। दश-राज्येषु ३७ राज्यसभा-स्थानानां निर्वाचनं १६ मार्चमासे भविष्यति। एतेषु महाराष्ट्रस्य सप्त, तमिलनाडोः षट्, बिहारस्य तथा पश्चिम-बङ्गालस्य पञ्च पञ्च, ओडिशायाः चत्वारि, असमस्य त्रीणि, तेलङ्गानायाः, छत्तीसगढस्य तथा हरियाणायाः द्वे-द्वे, हिमाचल-प्रदेशस्य च एकं स्थानं सम्मिलितम् अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता