Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, ०४ मार्चमासः (हि.स.)।आत्मसमर्पितः पूर्व-नक्सली–नेता भूपति:, यः कदाचित् प्रतिबन्धित–नक्सली–संघटनस्य पोलित–ब्यूरो–केन्द्रीय–समित्योः सदस्यः आसीत् तथा केन्द्रीय–वैचारिक–प्रभारी–रूपेण नक्सली–विचारधारायाः देशव्यापी प्रसारं कृत्वा दीर्घकालं हिंसामार्गे सञ्चरितवान्— यत्र उत्सवानां स्थानं न, अपि तु वन्य–संघर्ष एव आसीत्— सः आत्मसमर्पणानन्तरं अस्मिन् वर्षे बारूदस्य स्थाने वर्ण–गुलालैः सराबोरः दृष्टः।
छत्तीसगढ–सीमान्ते स्थितस्य महाराष्ट्र–राज्यस्य गढ़चिरौली–जनपदस्य पुनर्वास–केन्द्रे सः अन्यैः आत्मसमर्पितैः नक्सलिभिः सह होली–पर्व आचरितवान्। अस्मिन् समये तस्य हस्ते आयुधं न, अपि तु गुलालः आसीत्। पत्नी तारक्का तथा अन्यैः पूर्व–सहचरैः सह सः वर्णान् अलेपयत्, आलिङ्गनं कृतवान्, नव–जीवनस्य आरम्भस्य सन्देशं च दत्तवान्।
पुनर्वास–केन्द्रे होली–पर्वणः एतत् दृश्यं परिवर्तनस्य कथामपि कथयति। सुरक्षाबलानां तथा प्रशासनिक–अधिकारिणां दृष्टौ एषः अवसरः शान्तेः पुनर्वास–नीतेः च सफलतायाः प्रतीकः आसीत्। दशकैः हिंसाया: आघातं सहमानस्य बस्तर–अञ्चलस्य कृते एषा छवि: आशा–जननी अस्ति।
स्थानीय–अधिकारिणः मन्यन्ते यत्— यदा कदाचित् कठोर–विचारधारायाः प्रतीकरूपेण स्थिताः जनाः मुख्यधारां प्रत्यागत्य होली–उत्सवं आचरन्ति, तदा समाजस्य कृते सः सकारात्मकः संकेतः भवति। भूपतेः एषः पदक्षेपः तेषां यूनां कृतेऽपि सन्देशः अस्ति, ये अद्यापि अरण्येषु भ्रमन्ति। अस्मिन् होलिकापर्वणि वर्णैः बन्दूकाः पृष्ठतः कृताः— कदाचित् एष: एव सः क्षणः, यत्र बस्तरं गढ़चिरौली च शान्तेः उल्लासस्य च प्रतीकं भवितुं प्रवृत्ते गति दृश्यते।
हिन्दुस्थान समाचार / Dheeraj Maithani