Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 04 मार्चमासः (हि.स)
पश्चिम एशिया क्षेत्रे विद्यमानस्य संकटस्य मध्ये खाड़ीदेशेषु स्थितानां भारतीयनागरिकाणां सुरक्षितस्वदेशप्रत्यागमनाय निजीविमाननकम्पनी स्पाइसजेट स्वप्रयत्नान् तीव्रान् कृतवती।
विमानसंस्थया बुधवासरे प्रकाशिते वक्तव्ये उक्तं यत् सा अद्य संयुक्त अरब अमीरात देशात् अष्ट विशेषविमानयात्राः सञ्चालयिष्यति। स्पाइसजेट एताभिः अष्टभिः विशेषउड्डयनयात्राभिः यूएईदेशस्य फुजैरा नगरात् भारतस्य विभिन्नेषु प्रमुखनगरेषु सेवां प्रदास्यति। तासु दिल्ली नगराय चत्वारः विशेषेण उड्डयनयात्राः तथा मुम्बई नगराय अपि चत्वारः उड्डयनयात्राः सञ्चालयिष्यन्ति।
एतस्य अतिरिक्तं स्पाइसजेट कोच्चि नगराय एकां उड्डयनयात्रां अपि सञ्चालयिष्यति। अस्य पूर्वदिने अर्थात् 3 मार्च दिवसे विमानकम्पन्या चत्वारः विशेषउड्डयनयात्राः सञ्चालिताः आसन्।
स्पाइसजेट इत्यस्याः कथनानुसारं सा 4 मार्च तः स्वस्य नियमिताः फुजैरा दिल्ली तथा फुजैरा मुम्बई उड्डयनसेवाः पुनः प्रारप्स्यति।
अस्मिन् काले एयर इंडिया नामक विमानकम्पन्या यूएई, सऊदी अरब, इजरायल तथा कतर देशेभ्यः आगमनगमनसम्बद्धाः अधिकांशाः उड्डयनयात्राः 4 मार्च रात्रेः 23:59 पर्यन्तं स्थगिताः कृताः।
---------------
हिन्दुस्थान समाचार