सुरक्षायाः भाव और शांत्योः वातावयणे जायते उत्साहोत्सवः : मुख्यमंत्री योगी
होली के पावन पर्व पर सीएम योगी ने दी प्रदेशवासियों को बधाई*
आज हर सनातनी कर रहा आनंद की अनुभूति : मुख्यमंत्री*


आज हर सनातनी कर रहा आनंद की अनुभूति : मुख्यमंत्री*


आज हर सनातनी कर रहा आनंद की अनुभूति : मुख्यमंत्री*


आज हर सनातनी कर रहा आनंद की अनुभूति : मुख्यमंत्री*


आज हर सनातनी कर रहा आनंद की अनुभूति : मुख्यमंत्री*


आज हर सनातनी कर रहा आनंद की अनुभूति : मुख्यमंत्री*


गोरखपुरम्, 04 मार्चमासः (हि.स.)।

उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथो गोरखनाथमन्दिरे परम्परानुसारं होलिकोत्सवस्य शुभारम्भं कृत्वा उक्तवान् यत् होलिकोत्सवः सामाजिकसमरसतायाः उमङ्गस्य उल्लासस्य च पर्व अस्ति। उमङ्गउल्लासयोः एते पर्वाणि तदा एव उत्सवरूपेण आचर्यन्ते यदा समाजे शान्तिः वर्तते, सौहार्दं भवति, सुरक्षायाः विश्वासस्य च भावः भवति। अद्य उत्तरप्रदेशः सम्पूर्णः भारतदेशः च अस्मिन् एव विश्वासे अग्रे प्रगच्छति।

बुधवासरे प्रातःकाले गोरखनाथमन्दिरपरिसरे सञ्चारमाध्यमप्रतिनिधिभिः सह संवादे मुख्यमन्त्री योगी आदित्यनाथ उक्तवान् यत् सहस्रवर्षपरम्परया प्राप्तां होलीपर्वणः विरासतां भारतस्य ऋषिपरम्परा पूर्वजाश्च येन भावेन संरक्ष्य अस्मभ्यं समर्पितवन्तः तस्यैव उमङ्गेन उत्साहेन च वर्तमानपीढी ताम् अग्रे नयति। सः उक्तवान् यत् अद्य समग्रे प्रदेशे सर्ववर्गीयाः जनाः सर्वे सनातनधर्मानुयायिनः च अस्मिन् पवित्रपर्वणि सहभागीभूत्वा आनन्दानुभवं कुर्वन्ति। यदि कुत्रचित् मनोमलिनता वैरभावः वा अस्ति तर्हि तं परित्यज्य समरससमाजनिर्माणस्य प्रयासः क्रियते।

मुख्यमन्त्री उक्तवान् यत् प्रदेशे होलिकादहनसम्बद्धाः सर्वे कार्यक्रमाः सकुशलं सम्पन्नाः। प्रदेशे एकलक्षएकषष्टिसहस्राधिकेषु स्थानेषु होलिकादहनस्य कार्यक्रमाः शान्तिपूर्णरीत्या उत्साहेन सह आयोजिताः। स्वाभाविकरूपेण होलिकादहनम् भगवान् श्रीहरिविष्णोः महत्त्वपूर्णस्य नृसिंहावतारस्य स्मरणस्य अवसरः अपि अस्ति।

सः उक्तवान् यत् समाजे यत्र कुत्रचित् अराजकता अव्यवस्था अशान्तिः वा वर्तते तस्य दमनाय सज्जनशक्तेः संरक्षणाय दुर्जनशक्तेः पराजयाय सकारात्मकभावस्य प्रोत्साहनाय नकारात्मकभावस्य निवारणाय च ईश्वरीयावताराः नूतनां प्रेरणां ददति। प्रत्येकस्मिन् कालखण्डे एते अवताराः कस्यचित् रूपेण अस्माकं समक्षं भवन्ति। तेषां अनुरूपं वयं अपि प्रह्लाद शबरी अर्जुन इत्यादिरूपेण स्वीयां भूमिकां निष्ठया निर्वहामः चेत् सकारात्मकशक्तयः सुदृढाः भविष्यन्ति तथा नकारात्मकशक्तयः स्वयमेव पराजयं गमिष्यन्ति।

मुख्यमन्त्री उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्र मोदी नेतृत्वे अद्य नूतनभारतस्य दर्शनं दृश्यते। एतादृशं भारतं विकसितभारतत्वस्य दिशि शीघ्रं प्रगच्छति। अद्यतनभारतं प्रधानमन्त्रिणः मोदी नेतृत्वे दृढतया विरासतविकासयोः प्रक्रियायाः भागः अभवत्। अस्माभिः अस्मिन् विषये गौरवभावः अनुभूयते यत् अस्माकं स्वातन्त्र्यस्य अमृतकाले प्रधानमन्त्रिणः मोदी इव यशस्वी मार्गदर्शकः नेतृत्वं च प्राप्नोत्। तस्य नेतृत्वे भारतं विकसितम् आत्मनिर्भरं भारतं च साकारं करोति।

मुख्यमन्त्री सर्वान् नागरिकान् होलीपर्वणः शुभाशंसाः दत्त्वा कामनां कृतवान् यत् समरसतायाः एतत् पवित्रपर्व भविष्यत्पीढ्यः अपि एतेनैव उमङ्गेन उत्साहेन च अनन्तकालपर्यन्तम् आचरन्तु।

---------------

हिन्दुस्थान समाचार