उत्तरप्रदेशे छाया होलिकायाः रंगः, ब्रजस्य भक्तिः, काश्याः मस्ती- अवधयोः अनुशासनेन रंगे रंजितं वातावरणम्
- परंपरायाः, संस्कृतेः भातृत्वस्य उ कीर्तिमानं, रंगे उड्डीने सति विकसितानि मुखानि लखनऊ, 04 मार्चमासः (हि.स.)। फाल्गुनमासस्य पूर्णिमया सह एव समग्रः उत्तरप्रदेशः वर्णैः गुलालैः लोकगीतैः सांस्कृतिकउत्साहेन च पूर्णतया आवृतः अभवत्। ग्रामाणां चौपालात्
प्रतीकात्मक फाेटाे।


- परंपरायाः, संस्कृतेः भातृत्वस्य उ कीर्तिमानं, रंगे उड्डीने सति विकसितानि मुखानि

लखनऊ, 04 मार्चमासः (हि.स.)।

फाल्गुनमासस्य पूर्णिमया सह एव समग्रः उत्तरप्रदेशः वर्णैः गुलालैः लोकगीतैः सांस्कृतिकउत्साहेन च पूर्णतया आवृतः अभवत्। ग्रामाणां चौपालात् आरभ्य महानगराणां मार्गेषु पर्यन्तं होली केवलं वर्णोत्सवः न, अपि तु सामाजिकसमरसतायाः धार्मिकआस्थायाः सांस्कृतिकविरासतायाः च सजीवोत्सवः इव प्रकटिता। प्रदेशस्य विभिन्नेषु जिल्लेषु विविधपरम्पराभिः लोकसंस्कृतिभिः च सह आचरिता होली पुनः गङ्गाजमुनीसंस्कृतेः उत्कृष्टं उदाहरणं प्रदर्शितवती। ब्रजप्रदेशस्य भक्तिः काश्याः मस्ती अवधप्रदेशस्य शालीनता पूर्वाञ्चलस्य लोकधुनयः च सम्पूर्णप्रदेशं वर्णानां सूत्रेण बद्धवन्तः, यत्र विविधता एव प्रमुखपरिचयरूपेण प्रकटिता।

ब्रजप्रदेशे विश्वप्रसिद्धा परम्परागतहोली

उत्तरप्रदेशस्य होलीवर्णनं ब्रजप्रदेशस्य उल्लेखं विना अपूर्णम् इति मन्यते। मथुरा वृन्दावन बरसाना नन्दग्रामेषु लठमारहोली पुष्पहोली वर्णोत्सवः च द्रष्टुं देशविदेशेभ्यः सहस्रशः श्रद्धालवः आगतवन्तः। बरसानायां लठमारहोलीउत्सवे महिलाः परम्परागतरीत्या पुरुषेषु लाठीनां प्रहारं कुर्वन्त्यः दृश्यन्ते स्म। नन्दग्रामे तु हुरियाराः गुलालं विसृज्य वातावरणं वर्णमयं कृतवन्तः। मन्दिरेषु राधाकृष्णभक्त्या सह वर्णसङ्गीतयोः अद्भुतः समन्वयः दृष्टः।

काश्यां भङ्गसङ्गीतआध्यात्मिकवर्णोत्सवः

वाराणस्याः होली स्वस्य अलमस्तशैलीया प्रसिद्धा अस्ति। गङ्गाघाटेषु विदेशिनः पर्यटकाः अपि वर्णैः आवृताः दृश्यन्ते स्म। बाबा विश्वनाथस्य नगरे प्रभाते एव ढोलमञ्जीरनिनादैः फागगीतैः परम्परागतभङ्गसेवनस्य च सह उत्सववातावरणं निर्मितम्। गङ्गाघाटेषु “हर हर महादेव” इति घोषैः सह वर्णोत्सवः सायंकालपर्यन्तं प्रवृत्तः।

प्रभुश्रीरामस्य नगरे श्रद्धाउल्लासयुक्ता होली

अयोध्यानगरे होलीउत्सवः प्रभुश्रीरामस्य मर्यादया लोकआस्थया च सम्बद्धः दृष्टः। रामनगरे गलिषु वर्णगुलालैः सह भक्तिः अपनत्वं सामाजिकसौहार्दं च अद्भुतरूपेण प्रकटितम्। प्रभाते एव जनाः परस्परं अबीरगुलालं लिप्त्वा “जय श्रीराम” इति घोषेण उत्सवस्य आरम्भं कृतवन्तः। परिवाराणां युवसमूहानां च टोलीः परम्परागतगीतैः सह उत्साहेन होलीं आचरत। स्थानीयमोहल्लेषु आयोजितेषु होलीमिलनसमारोहेषु प्रभुश्रीरामस्य आदर्शाः प्रेम मर्यादा भ्रातृत्वं च जीवनस्य अंगत्वेन स्वीकरणीयम् इति संदेशः प्रदत्तः। बालकात् वृद्धपर्यन्तं सर्वेषु विशेषः उत्साहः दृष्टः। उत्सवस्य मुख्यसन्देशः आसीत् यत् रामनगरे होली केवलं वर्णोत्सवः न, अपि तु परस्परप्रेमस्य सामाजिकैकतायाः च उत्सवः अस्ति। प्रभुश्रीरामस्य भूमौ वर्णाः अपि मर्यादया प्रस्फुटन्ति उत्सवाः अपि संस्कारैः सह आचर्यन्ते।

अवधप्रदेशे सांस्कृतिकसमाजिकहोली

राजधानी लखनऊ सहिते समग्रे अवधप्रदेशे शालीनसांस्कृतिकहोली दृष्टा। मोहल्लेषु सामूहिकहोलीमिलनकार्यक्रमाः आयोजिताः, यत्र हिन्दूमुस्लिमसमाजयोः जनाः परस्परं गुलालं लिप्त्वा भ्रातृत्वस्य सन्देशं प्रदत्तवन्तः। शासकीयसंस्थासु सामाजिकसंगठनेषु सांस्कृतिकमञ्चेषु च कविसम्मेलनानि फागगायनं लोकनृत्यकार्यक्रमाश्च उत्सवं विशेषं कृतवन्तः।

पूर्वाञ्चले लोकगीतफागनिनादः

मिर्जापुर गोरखपुर आजमगढ बलिया इत्यादिषु पूर्वाञ्चलजिल्लेषु परम्परागतफागगीतानां महानिनादः श्रुतः। ग्रामचौपालासु ढोलकझांझनिनादैः सह रात्रौ पर्यन्तं होलीगीतानि गायत। ग्रामीणप्रदेशेषु अद्यापि प्राकृतिकवर्णप्रयोगः सामूहिकभोजनपरम्परा च जीविता दृश्यते।

बुन्देलखण्डे पञ्चदिनीयहोली

झांसी हमीरपुर बांदा इत्यादिषु प्रदेशेषु होली बहुदिनपर्यन्तं प्रवर्तमानः उत्सवः अभवत्। अत्र महिलानां विशेषहोली लोकनृत्यं परम्परागतसंस्काराश्च उत्सवस्य विशेषपरिचयं दत्तवन्तः।

सुरक्षा प्रशासनव्यवस्था

प्रदेशसरकारेण जिलाप्रशासनेन च संवेदनशीलप्रदेशेषु पुलिसबलस्य नियुक्तिः कृता येन शान्तिव्यवस्था संरक्षिता। प्रमुखनगरेषु ड्रोननिरीक्षणेन नियन्त्रणकक्षस्य माध्यमेन च स्थितेः निरीक्षणं कृतम्, येन अधिकांशेषु स्थलेषु शान्तिपूर्णा होली सम्पन्ना।

सामाजिकसन्देशरूपा होली

अस्मिन् वर्षे अनेकेषु जिल्लेषु “रासायनिकवर्णनिषेधः जलसंरक्षणम् सौहार्दपूर्णहोली” इत्यादीनां अभियानेषु विशेषप्रोत्साहनं दत्तम्। युवजनाः सामाजिकसंगठनानि च पर्यावरणानुकूलहोलीमाचरितुम् आह्वानं कृतवन्तः।

---------------

हिन्दुस्थान समाचार