शिया–सुन्नी धर्मगुरवः तथा विश्वस्य महाशक्तयः युद्ध-निवारणार्थं अग्रे आगच्छेयुः — बाबा रामदेवः
योग-साधकैः पतञ्जलि-विश्वविद्यालयस्य छात्रैः सह बाबारामदेव: हर्षेण होलिकां क्रीडितवान्। राजनैतिक-मतभेदानां न, अपि तु सर्वकार-प्रयत्नानां समर्थनस्य कालः — स्वामीरामदेवः हरिद्वारनगरम्, ०४ मार्चमास: (हि.स.)। पतञ्जलि-योगपीठ-स्थिते योग-भवने प्रातःकाले
होली खेलते स्वामी रामदेव


योग-साधकैः पतञ्जलि-विश्वविद्यालयस्य छात्रैः सह बाबारामदेव: हर्षेण होलिकां क्रीडितवान्।

राजनैतिक-मतभेदानां न, अपि तु सर्वकार-प्रयत्नानां समर्थनस्य कालः — स्वामीरामदेवः

हरिद्वारनगरम्, ०४ मार्चमास: (हि.स.)। पतञ्जलि-योगपीठ-स्थिते योग-भवने प्रातःकाले योगाभ्यासानन्तरं स्वामीरामदेव: योग-साधकैः तथा पतञ्जलिविश्वविद्यालयस्य छात्रैः सह उल्लासपूर्वकं होलिकाम् अक्रीडत्। सः पुष्पैः वर्णैश्च सह सर्वेभ्यः शुभाशया: अर्पयन् हर्षेण होली-क्रीडां क्रीडितवान्।

अस्मिन् अवसरे पत्ररकारै: सह संवादं कुर्वन् स्वामीरामदेवः ईरान–इजराइल-युद्धे गभीरां चिन्तां व्यक्तवान्। सः अवदत् यत् सम्पूर्णं पश्चिम-एशिया युद्ध-अग्निना दह्यते। तेनोक्तं यत् संयुक्तराज्य-अमेरिका-देशः डॉलर-मुद्रायाः वर्चस्वं स्थापयितुं इच्छति, ये देशा अमेरिका-वाक्यं न स्वीकरोति, तान् देशान् लक्ष्यं करोति।

स्वामीरामदेवेन आह्वानं कृतं यत् सर्वे शिया–सुन्नी-धर्मगुरवः तथा विश्वस्य महाशक्तयः अग्रे आगत्य एतेषां युद्धानां निवारणं कृत्वा शान्ति-स्थापनाय प्रयत्नं कुर्वन्तु। सः स्पष्टतया अवदत्— यदि विश्वं सुरक्षितं कर्तुं इच्छामः, तर्हि परमाणु-आयुधानां उन्मूलन-दिशि दृढ-पदानि अवश्यं गृहीतव्यानि। तस्य मतम्— युद्धेन कस्यापि कल्याणं न भवति, योगः शान्ति: चैव मानवतां रक्षितुं शक्नुतः।

देशे मतभेदाः न, एकता आवश्यकी —

बाबारामदेवः भारतस्य विदेश-नीत्यां विश्वासं व्यक्तवान्। सः अवदत् यत् अयं कालः राजनैतिक-मतभेदानां न, अपि तु राष्ट्रीय-एकतायाः कालः अस्ति। सः सर्वान् आह्वयत् यत् देशीय-विषयेषु अनावश्यक-आलोचनां परित्यज्य सर्वकारस्य प्रयत्नानां समर्थनं क्रियताम्।

हिन्दुस्थान समाचार / अंशु गुप्ता