जनगणनायै चत्वारि डिजिटल–उपकरणानि उद्घाटितानि, ‘प्रगति–विकास’ शुभंकरस्य अनावरणम्
नवदिल्ली, ०५ मार्चमासः (हि.स.)।केंद्रीय–गृह–सहकारिता–मन्त्री अमित–शाहः गुरुवासरे जनगणना–२०२७ कृते चत्वार: डिजिटल–मञ्चा: (प्लेटफॉर्म) प्रारम्भरूपेण उद्घाटितवान् तथा ‘प्रगति:’ (स्त्री) ‘विकास:’ (पुरुष:) इति नाम्नो: शुभंकरयोः अनावरणम् अकरोत्। एषा जनग
केंद्रीय गृह मंत्री अमित शाह गुरुवार को  ‘प्रगति’ (महिला) तथा ‘विकास’ (पुरुष) शुभंकर का अनावरण करते हुए


नवदिल्ली, ०५ मार्चमासः (हि.स.)।केंद्रीय–गृह–सहकारिता–मन्त्री अमित–शाहः गुरुवासरे जनगणना–२०२७ कृते चत्वार: डिजिटल–मञ्चा: (प्लेटफॉर्म) प्रारम्भरूपेण उद्घाटितवान् तथा ‘प्रगति:’ (स्त्री) ‘विकास:’ (पुरुष:) इति नाम्नो: शुभंकरयोः अनावरणम् अकरोत्।

एषा जनगणना विश्वस्य महदभियानं भविष्यति, यतः प्रथमवारं सम्पूर्णा जनगणना पूर्णतया डिजिटल–माध्यमेन आयोजयितुं निश्चिता अस्ति। एतदपि प्रथमवारं भविष्यति यत् नागरिकाः ‘स्व–गणना’ (सेल्फ–एन्यूमरेशन) विकल्पेन स्वस्य सूचनाः अन्तर्जालेन स्वयमेव अभिलेखयितुं शक्नुवन्ति।

शासकीय–सूचनानुसारं एते उन्नत–डिजिटल–मञ्चाः सेंटर फॉर डेवलपमेंट ऑफ एडवांस्ड कंप्यूटिंग (सी–डैक) इत्यनेन विकसिताः। एतेषां साहाय्येन राष्ट्रव्यापिनि जनगणना–प्रक्रिया अधिकं सुव्यवस्था–सम्पन्ना तथा प्रौद्योगिकी–आधारिता भविष्यति।

जनगणना–२०२७ कृते निर्मितौ ‘प्रगति:’ तथा ‘विकास:’ इति शुभंकरौ क्रमशः स्त्री–पुरुष–गणनाकर्मिणोः प्रतीकौ स्तः। तयोः माध्यमेन जनगणनासम्बद्धाः सन्देशाः जनसामान्यं प्रति सरलतया प्रभावकरूपेण च प्रसारिताः भविष्यन्ति। एतौ स्त्री–पुरुष–समभागितायाः प्रतीकौ अपि स्तः, येन २०४७ पर्यन्तं भारतं विकसित–राष्ट्ररूपेण निर्मातुं संकल्पः दर्क्ष्यते।

सर्वकारेण १६ जूनमासे २०२५ तमे वर्षे राजपत्र–अधिसूचनां प्रकाश्य जनगणना–२०२७ प्रक्रिया औपचारिकतया आरब्धा। एषा जनगणना द्वयोः चरणयोः सम्पन्ना भविष्यति, यस्मिन् राष्ट्रव्यापिनि ३० लक्षाधिकाः गणनाकर्मिणः, पर्यवेक्षकाः तथा अन्ये अधिकारीणः सहभागिनः भविष्यन्ति।

प्रथम–चरणे ‘गृह–सूचीकरण–आवास–जनगणना’ अन्तर्गतं गृहस्थितेः तथा गृह–सुविधानां विषये सूचना संगृह्यते। अस्य कृते १ अप्रैलमासात् ३० सितम्बरमासपर्यन्तं ३० दिनानां अवधौ राज्यैः तथा केन्द्रशासित–प्रदेशैः निर्दिष्ट–समये कार्यं सम्पन्नं भविष्यति। अस्मात् पूर्वं १५ दिनानां वैकल्पिकी ‘स्व–गणना’ अवधि अपि उपलब्धा भविष्यति।

द्वितीय–चरणे ‘जनसंख्या–गणना’ अन्तर्गतं २०२७ वर्षस्य फरवरीमासे राष्ट्रव्यापिनि प्रत्येक–व्यक्तेः जनसांख्यिकी–सामाजिक–आर्थिक–सूचनाः अभिलेखिताः भविष्यन्ति। अस्मिन् चरणे जाति–सम्बद्धः प्रश्नः अपि समाविष्टः भविष्यति।

जनगणना–२०२७ मध्ये सूचना–संग्रहणाय सुरक्षित–चलदूरभाष–अनुप्रयोगस्य माध्यमेन गृहं गृहं गत्वा दत्तांश–संकलनं क्रियते, येन सम्पूर्णा प्रक्रिया अधिका तीव्रा, सुरक्षिताः तथा पारदर्शिता–युक्ता भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता