Enter your Email Address to subscribe to our newsletters



गुवाहाटीनगरम्, ०५ मार्चमासः (हि.स.)। असमप्रदेशे रिक्तानां त्रीणि राज्यसभा–स्थानानि निर्वाचनाय नामांकनपत्रं समर्पितुं अन्तिमदिने गुरुवासरे, भारतीय–जनता–पक्ष–नेतृत्वेन गठितं गठबंधनं तेषां त्रयाणां अभ्यर्थिनां नामांकनपत्राणि समर्पितवान्।
भाजपापक्षात् कैबिनेट्–मन्त्री योगेनमहन् तथा दुलियाजान–विधानसभाक्षेत्रस्य विधायकः तेरेसग्वाला नामांकनं समर्पितवान्। तृतीयस्थानाय गठबंधन–सहयोगी यूपीपीएल (United Peoples Party Liberal) अध्यक्षः प्रमोदबोडो अपि नामांकनं समर्पितवान्।
नामांकन–समर्पणकाले केंद्रीय–मन्त्री सर्बानंदसोनवाल:, मुख्यमन्त्री डॉ.हिमंतबिस्व: सरमा, तेषां मन्त्रिमण्डलस्य सदस्याः, तथा गठबंधन–सहयोगी असमगणपरिषद् (AGP), यूपीपीएल, भाजपाया: च अनेके नेतार: उपस्थिताः।अन्यपक्षात् अभ्यर्थिनः न सन्ति इति दृष्ट्वा एते त्रयः अभ्यर्थिनः निर्विरोधेन राज्यसभा–सदस्यत्वं प्राप्स्यन्ति इति अनुमान्यते।
स्मरणीयम् यत् ०९ अप्रैलमासे २०२६ तमे असमराज्ये त्रयः वर्तमान–सदस्याः भुवनेश्वर कलिता, अजीतकुमार: भुइयां, रामेश्वर तेलीणां कार्यकालः समाप्तो भविष्यति। अस्मात् द्वे स्थाने भाजपा-पक्षे वर्तमानं, एकं स्थानं विपक्षे।
राज्यसभा–निर्वाचनाय नामांकन–समर्पणस्य अन्तिमतिथिः ०५ मार्चमास:, तथा नाम–परित्यागस्य अन्तिमतिथिः ०९ मार्चमास:। यदि अभ्यर्थिनः निर्विरोधं स्युः, तर्हि मतदानं न भवति। अन्यथा आवश्यकतानुसार मतदानं क्रियते।
हिन्दुस्थान समाचार / अंशु गुप्ता