कृषि मंत्री गणेश जोशी अकरोत् पौधरोपणम्
देहरादूनम्, 05 मार्चमासः (हि.स.)। उत्तराखण्डस्य कृषिमन्त्री गणेश जोशी गुरुवासरे केन्द्रीयकृषि तथा ग्रामीणविकासमन्त्री शिवराज सिंह चौहानस्य जन्मदिवसस्य अवसरम् उपलक्ष्य तेन कृतस्य “प्रतिदिनम् एकं पौधरोपणम्” इति संकल्पस्य अन्तर्गतं स्वस्य शासकीयावा
मंत्री गणेश जोशी पौधरोपण करते हुए।


देहरादूनम्, 05 मार्चमासः (हि.स.)।

उत्तराखण्डस्य कृषिमन्त्री गणेश जोशी गुरुवासरे केन्द्रीयकृषि तथा ग्रामीणविकासमन्त्री शिवराज सिंह चौहानस्य जन्मदिवसस्य अवसरम् उपलक्ष्य तेन कृतस्य “प्रतिदिनम् एकं पौधरोपणम्” इति संकल्पस्य अन्तर्गतं स्वस्य शासकीयावासे पौधरोपणम् अकरोत्।

अस्मिन् अवसरे गणेश जोशी केन्द्रीयमन्त्री शिवराज सिंह चौहानाय जन्मदिवसस्य अभिनन्दनानि शुभाशयांश्च दत्त्वा तस्य स्वस्थस्य दीर्घायु सफलजीवनस्य च कामनाम् अकरोत्। स उक्तवान् यत् शिवराज सिंह चौहानस्य नेतृत्वे देशस्य कृषकाणां ग्रामीणक्षेत्राणां च विकासाय अनेके महत्त्वपूर्णाः कार्याः क्रियमाणाः सन्ति।

कृषिमन्त्री अवदत् यत् जनसेवायाः प्रति शिवराज सिंह चौहानस्य समर्पणम् कर्तव्यनिष्ठा संवेदनशीलता च सर्वेषां कृते प्रेरणास्रोतः अस्ति। स अपि अवदत् यत् पर्यावरणसंरक्षणाय पौधरोपणादयः प्रयासाः अत्यन्तम् आवश्यकाः सन्ति तथा समाजस्य प्रत्येकः जनः प्रकृतिसंरक्षणाय अग्रे आगन्तुं आवश्यकम्।

अस्मिन् अवसरे सरकारे दायित्वधारी जगत सिंह चौहान, भाजपा नेता रामशरण नौटियाल, लक्ष्मण सिंह रावत, युवामोर्चस्य जिलाउपाध्यक्षः ठाकुर धीरेन्द्र सिंह तथा दीपक भट्ट इत्येभिः सहिताः अन्ये अपि जनाः उपस्थिताः आसन्।

हिन्दुस्थान समाचार